________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३४वस्य प्रतिषेधात् " स्वरादेः०" 4114 इति द्वितीयांशस्य जेरेव द्वित्वे उब्जिजिषति / " भावाकों: " [5 / 3 / 18] पनि उद्गादित्वाद् गत्वे अभ्युद्गः, समुद्गः / आधारे " व्यञ्जनात्" 5 / 3 / 132 इति घजि न्युब्जितः; शेते अस्मिन्निति न्युन्जो रोगः, “भुजन्युजं." 4 / 1 / 120 इति निपातनादत्र न गत्वम् / उब्जती, उब्जन्ती स्त्री कुले वा / ओज इति " उर्ज च" ( उ० 959 ) इति असि उषेः॥ '35 सृजंत विसर्गे'। सृजति / “सृजः श्राद्धे०" 3 / 4 / 84 इति जिक्यात्मनेपदेषु असजि माला धार्मिकः, सृज्यते मालां धार्मिकः, स्रक्ष्यते मालां धार्मिकः / कर्मकर्तरि सृज्यते माला स्वयमेव, असजि माला स्वयमेव / ससर्ज / थवि " सृजिदृशि० " 4 / 4 / 78 इति वेटि सस्रष्ठ, सप्तर्जिथ / अनुस्वारेवान्नेट् , "अ: सृजिदृशो०" 4 / 4 / 111 इति स्वरात्परो अः, " यजसृज० " 2 / 1 / 87 इति जस्य षः, स्रष्टा / अस्राक्षीत् , सृष्टः / सृजती सृजन्ती स्त्री कुले वा / उणादौ " स्यन्दिसृजिभ्यां सिन्धरजी च" ( उ० 717 ) इति उः, रज्जुः // . '36 रुजोत् भङ्ग' / “रुजार्थस्य०" 2013 इति वा कर्मणः कर्मत्वे " शेषे " 2 / 2 / 81 इति षष्ठयां चौरस्य रुजति रोगः, चौरं रुजति रोगः / रुरोज / अनुस्वारेच्चान्नेट् , रोक्ता / ओदित्वात् " सूयत्याद्यो०" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे "क्तादेशोऽपि " 2 / 161 इति नस्य असिद्धत्वेन धुटि “चज:०" 2 / 1 / 86 इति मे रुग्णः, रुग्णवान् / " कूलादुद्रजो०" 5 / 1 / 122 इति खशि कूलमुद्रुजः समुद्रः / विवपि “गतिकारकस्य०" 32285 इति नेः दीर्घे नीरुक इत्येके / " पदरुज०" 5 / 3 / 16 इति कर्तरि घजि रोगः / भिदाद्यङि रुजा / उणादौ " रुक्मग्रीष्म० " ( उ० 346) इति मकि निपातनात् रुकमम् // '37 भुजोंत् कौटिल्ये' / भुजति, निभुजति, बुभोज / अनुस्वारेच्चान्नेट् , भोक्ता / ओदित्वात् " सूयत्ययो०" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे भुग्नः, भुग्नवान् / " नाम्युपान्त्य० " 5 / 154 इति के भुजः / " ऋवर्णः" 5 / 1 / 17 इति ध्यणि भोग्यम् / " स्थादिभ्यः " 5 / 3 / 82 इति भावे के भुजः कौटिल्यम् / भुजेन गच्छति भुजगः / करणाधारे " व्यअनाद्" 5 / 3.132 इति पनि भोगः सर्पकायः / भुजंप पालनाभ्यवहारयोः [6 / 15], भुनक्ति, “भुनजोऽत्राणे " 3 / 3 / 47 इति आत्मनेपदे भुङ्क्त / 1. शेषषष्ठयां इति मु०॥