________________ 34 ] धातुपारायणे तुदादयः (5) [257 '30 उछैत् विवासे' / विवासः अतिक्रमः / " स्वरेभ्यः" 13 / 30 इति छस्य द्वित्वे उच्छति / " गुरुनाम्यादेः० " 3 / 4 / 48 इति परोक्षाया आमि उच्छाञ्चकार / उच्छिता / ऐदित्वात् क्तयोर्नेट् , " अनुनासिके च० " 4 / 1 / 108 इति छस्य शे " यजसृज०" 2 / 1187 इति शस्य षे व्युष्टः, व्युष्टवान् ; व्युष्टा नाडिः, व्युष्टं प्रातः / सनि उचिच्छिषति / छस्य द्वित्वे पूर्वस्य चस्य तत्वं च इच्छन्न्येके, तन्मते उतिच्छिषति इत्यपि; एवमन्यत्रापि / शतरि " अवर्णादश्नो." 2 / 1 / 115 इति वाऽन्तादेशे उच्छती, उच्छन्ती स्त्री कुले वा // '31 मिछत् उत्क्लेशे' / उत्क्लेशो वाधनम् / " स्वरेभ्यः" 1330 इति छस्य द्वित्वे मिच्छति, मिमिच्छ, मिच्छिता, मिच्छित:; मिच्छती, मिच्छन्ती स्त्री कुले वा / पिछेति द्रमिलाः, 'पिच्छा आचामः // '32 उछुत् उञ्छे' / उञ्छः उच्चयः / उदिवाने " तवर्गस्य." 11360 इति नस्य जे उच्छति / " गुरुनाम्यादेः०" 3 / 4 / 48 इति परोक्षाया आमि उञ्छाञ्चकार / उञ्छिता / घजि उञ्छः / उञ्छती, उञ्छन्ती स्त्री कुले वा // '33 प्रछंत् ज्ञीप्सायाम् ' / ज्ञीप्सा जिज्ञासा / " स्वरेभ्यः" 113 / 30 इति छस्य द्वित्वे " ग्रहवश्च० " 4 / 1 / 84 इति वृति पृच्छति / " समो गमृ०" 3 / 384 इति आत्मनेपदे संपृच्छते / आपूर्वस्य "२नुप्रच्छः" 3 / 3 / 54 आपृच्छते गुरुम् / पप्रच्छ / संयोगान्तत्वाद् " इन्ध्यसंयोगा० " 4 / 3 / 21 इति किवाभावान्न वृत् , पप्रच्छतुः, पप्रच्छुः / अनुस्वारेवान्नेट् , प्रष्टा, पृष्टः / “ऋस्मिपूङ० " 4 / 4 / 48 इति इटि "रुदविद०" 4 / 3 / 32 इति सनः कित्त्वे पिच्छिषति / " दिद्युद्०" 5 / 2683 इति विपि निपातनात् प्रश्नशीलः प्राट् , शब्दप्राट् / प्राडिववाको निर्णेता / " यजिस्वपि०" 5 / 385 इति ने " अनुनासिके च" 4 / 1 / 108 इति छस्य शे प्रश्नः / भिदाधङि पृच्छा / उणादौ "लूधूप्रच्छिभ्यः कित् " ( उ० 679 ) इति नौ पृश्निः रश्मिः // अथ जान्ताः षट / "34 उब्जत् आर्जवे' / उब्जति / " गुरुनाम्यादेः" 3 / 4 / 48 इति परोक्षाया आमि उब्जाश्चकार / उब्जिता, उब्जितः / “न बदनं० " 4 / 1 / 5 इति 1. पिच्छा: आचामः / (क्षी. त. पृ. 236 ) / 2 तुम इति मु०॥ - . 33