________________ 270 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 110 '110 स्तुहौ' / स्तृहति, तस्तई / औदित्वाद् वेट , स्तहिता, स्तम् / वेटत्वात् क्तयोनेंट् , स्तृढः, स्तृढवान् / पोपदेशोऽयमित्येके, तन्मते " णिस्तोरेवा." 2 / 3 / 37 इति षत्वे तिष्टहयिषति // '111 स्तुहौत् ' / “नो व्यञ्जनस्या० " 4 / 2 / 45 इति नलुकि स्तृहति तस्तूंह / औदिचात् वेट् , स्तूंहिता, स्तृण्ढा / वेट्त्वात् क्तयोर्नेट , स्तृढः, स्तृढवान् / तृहती, तृहन्ती स्त्री कुले वा / अयमपि षोपदेश इत्यन्ये / तृहप हिंसायाम् [ 6 / 23], " तृहः श्नादी०" 4 / 3 / 62 इति तृणेढि // अथ तुदाद्यन्तर्गणः कुटादिः, तत्र प्रसिद्ध यनुरोधेनादौ * 112 कुटत् कौटिल्ये' / कुटति / " कुटादेः०" 4 / 3 / 17 इति ङिच्चाद् गुणाभावे कुटिता, कुटितुम् , कुटित्वा / णिति तु ङिवाभावाद् गुणे उच्चुकोट, उत्कोटयति, उत्कोटकः, उदकोटि, उत्कोटः / “णिद्वान्त्यो ण" 4 / 3 / 58 अहम् उच्चुकोट, णिचाभावे तु ङित्त्वात् न गुणः, अहम् उच्चुकुट / " नाम्युपान्त्य०" 5 / 1154 इति के कुटः, उत्कुटः / उणादौ " भुजिकुति०" (उ० 305) इति किति अपे कुटपः प्रस्थचतुर्भागः, "ऋच्छिचटि०" ( उ० 397 ) इति अरे कुटरः मर्कटः, बाहुलकात् गुणे कोटरः छिद्रम् / “घसिवशि०" ( उ० 419) इति ईरे कुटीरम् / " कल्यनि० " ( उ० 481 ) इति इले कुटिलम् / " रुचिकुटि०" (उ० 502) इति मलकि कुडूमलः विष्णुः मुकुलं च / "कृशकुटि०" (उ० 619) इति वा णिदिः, कोटिः, कुटिः // अथोदन्तावनिटौ च // "113 गुंत् पुरीपोत्सर्गे' / गुवति, जुगाव / अनुस्वारेवान्नेट , “कुटादेः." 4 // 3 // 17 इति ङित्त्वाद् गुणाभावे गुता, गुतम् , गुतव्यम् / “सिचि परस्मै० " 4 / 3 / 44 इति वृद्धयभावे न्युगुपीत् / “दुगोरू च" 4 / 277 इति क्तयोस्तस्य नत्वे गूनः, गूनवान् / उणादौ " पथयूथ 0 " ( उ० 231) इति 'थे निपातनाद् गूथम् / दीर्घान्तः सेट् चाऽयमित्यन्ये, तन्मते न्यगुवीत् , गुविता, गुवितव्यम् / गुङ् शब्दे [ 11591 ], गवते // ___ 114 ,त् गतिस्थैर्ययोः / ध्रुवति, दुध्राव / अनुस्वारेत्त्वान्नेट् , “कुटादे.." 4 / 3 / 17 इति ङिच्चाद् गुणाभावे ध्रुता / “सिचि परस्मै० " 4 / 4 / 44 इति 1. मु० नास्ति //