________________ 26 ] धातुपारायणे तुदादय: (5) / गीर्णः, गीर्णवान् / क्तौ गिर्णिः / गीर्वा / " नाम्युपान्त्य०" 5 / 1154 इति के गिरः, लत्वे गिल: / अणपवादे लिहायचि अजगरः, ओदनगरः / काऽपवादे अचि अलि वा गरः, लत्वे गलः / " न्युदो ग्रः" 5 / 3 / 72 इति पनि निगारः, उद्गारः / बाहुलकाद् घत्रि णे वा अगारम् / उणादौ “ऋतष्टित् " ( उ० 9) इति अः सरूपे च द्वे रूपे गर्गरः राजर्षिः, गर्गरी महाकुम्भः / “गम्यमि०" ( उ० 92 ) इति गे गर्गः ऋषिः / " दम्यमि०" ( उ० 200) इति ते गतः / " गृदृरमि०" (उ० 327) इति मे गर्भः / “कृशगृ०" (उ० 329) इति अभे गरभः गर्भ एव / " लटिखटि० " ( उ० 505) इति वे गर्वः / "प्रबाह्वा०" ( उ० 514 ) इति वे निपातनाद् ग्रीवा / “नाम्युपान्त्य०" (उ० 609) इति किदिः, गिरिः / “यो मादिर्वा" ( उ० 890) इति उति गरुत् , गर्मुत्-हेम / गृश् शब्दे [ 8 / 31 ], गृणाति // अथ खान्तः सेट् च // _ 22 लिखत् अक्षरविन्यासे' / लिखति, लिलेख, लेखिता, लिखितः / " नाम्युपान्त्य०" 5 / 1 / 54 इति काऽपवादे लिहायचि लेखः, भिदादिनिपातनादडि लेखा / करणाऽऽधारे " व्यञ्जनात्" 5 / 3 / 32 इति पनि लेखः / उणादौ " ध्रुधृन्दि०" ( उ० 29) इति किति अके लिखक: चित्रकारः / कुटादिस्यमित्येके, लिखनीयम् // अथ चान्ताः पञ्च सेटश्च // .. 23 जर्च 24 झर्चत् परिभाषणे' / तर्जनेऽपि इत्येके / जर्चति, जजर्च, जचिंता, जर्चितः // '24 झर्चत् ' / झर्चति, जझर्च, झर्चिता झर्चितः / चादिरयमित्येके, चर्चति; णके चर्चिका // '25 स्वचत् संवरणे' / संवरणम्-आच्छादनम् / त्वचति, तत्वाच, त्वचिता / 'अचि त्वचः / विपि सिरामांसादि त्वचति इति त्वक् // . '26 ऋचत् स्तुतौ' / ऋचति / " अनातो." 4169 इति पूर्वस्य आत्वे ने च आनर्च, आनृचतुः / अर्चिता, ऋचितः / “ऋदुपान्त्याद० " .5 / 1 / 41 इत्यत्र ऋचो वर्जनाद् " ऋवर्ण० " 5 / 1 / 17 इति ध्यणि ते सेट्त्वात्