________________ 254 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 20 अः स्वरूपे च द्वेरूपे, कर्करः क्षुद्राश्मा, कर्करी गलन्तिका / " ढकनृ० " (उ० 27) इति अके करकः, करकम् , करका च धनोपलः / " किरोको रो लश्च वा" ( उ० 62), करकः समुद्रः, कलङ्कः / " पतितमि०" (उ० 98) इति अङ्गे करङ्गः कर्मशीलः / " कूर्चचूर्चा०" ( उ० 113 ) इति चटि निपातनात् कूर्चम् ; कूर्चम् इव कूर्चकः, कूर्चिका इति च / " कल्यवि०" (उ० 114 ) इति अचे करचः धान्यावपनम् / “किरो लश्च वा" (उ० 147) इति किति आटे किलाटः, किराटः / “तककृपि० " ( उ० 151 ) इति कीटे किरीटम् / “विहडकहोड" ( उ० 172 ) इति अडे निपातनात् केरडः त्रैराज्ये राजा, क्रोडम् अङ्कः / " जुकृत० " ( उ० 173 ) इति अण्डे करण्ड: / " इणुर्विशा०" ( उ० 182) हात णे कर्णः / “गप० " इति किति अणे किरणः / “ऋकव० " (उ० 196) इति उणे करुणा / "कृशसृभ्य ऊर चान्तस्य" (उ० 298) इति पे कूपं भ्रूमध्यम् / “कृशग० " ( उ० 329) इति अभे करभः / " कृशप० " ( उ० 418) इति ईरे करीरः; गौरादित्वाद् ड्यां करीरी / " कृतृभ्यामीषः" ( उ० 553 ) करीषः / " नाम्युपान्त्य०" (उ० 609) इति किदिः, किरिः सूकरः / “कुन ऋत उर च" ( उ० 734 ) इति :, कुरुः / कृगश् हिंसायाम् [ 8 / 15 ], कृणीते, कृणाति // ___'21 गृत् निगरणे' / निगरणं भोजनम् / " नवा स्वरे" 2 / 3 / 102 इति वा लत्वे गिरति, गिलति / प्रतिज्ञायां " समः " 3 / 3 / 66 इति आत्मनेपदे संगिरते / " अवात् " 3 / 3 / 67 अवगिरते / कर्मकर्तरि " एकधातौ०" 3 / 4 / 86 इति जिक्याऽऽत्मनेपदेषु प्राप्तेषु किरादित्वाद् "भूषार्थ " 3 / 4 / 93 इति क्योः प्रतिषेधे निगिरते ग्रासः स्वयमेव / " इटू सिजा." 4436 इति वेटि " वृतो नवा०" 4 / 4 / 35 इति वेटो दीघे न्यगीट ग्रासः स्वयमेव / न्यगरिष्ट, न्यगरीष्ट स्वयमेव / णौ फलवत् कर्तरि “ईगितः " : 3 / 395 इति आत्मनेपदापवादे " चल्याहारार्थ" 3 / 3 / 108 इति परस्मैपदे निगास्यति ग्रासं चैत्र मैत्रः / " गूलुप०" 3 / 4 / 12 इति गर्थािद् यङि “यो यङि" 2 / 3 / 101 इति लत्वे निजेगिल्यते / यङ्लुपि निजागलीति / " ऋस्मिपूङ०" 4 / 4 / 48 इति सनि इटि जिगरिपति, जिगरीषति / अस्य इटो दीर्घ नेच्छन्त्येके / गरिष्यति, गरीष्यात / " ऋवर्णश्रृयू०" 4 / 4 / 57 इति किति नेट्, “ऋल्लादे० " 4 / 2 / 62 इति तो नत्वे 1. तृकृपीति इति मु० //