________________ 20 ] धातुपारायणे तुदादय: (5) [ 253 पिभ्यामिचः", ( उ० 117 ) मरिचम् / " म्रियतेरीचण" (उ० 118) मारीचः / " लूम्रो वा " ( उ० 202 ) इति वा किति ते मृतः, मतः; स्वार्थे ये मर्त्यः / " मृशीपसि०" (उ० 360) इति तादौ ये मयः / "जठरक्रकर०" ( उ० 403) इति अरे निपातनाद् मर्मरः शुष्कपत्रध्वनिः / " मृश्विकण्यणि०" उ० 626 ) इति ईचौ मरीचिः / " भृमृत०" (उ० 716) इति उः, मरुः / "मुस्त्युक०" (उ० 805) मृत्युः / “पलिमृभ्यामाण्डुकण्डुको" ( उ० 767) मृकण्डुः ऋषिः / मनि मर्म / मरुत् इति तु “म्र उत्" ( उ० 889) इति मृणाते: उति // . अथ ऋदन्तौ सेटौ च // ___20 कत विक्षेपे / किरति / " अपस्किरः" 3 / 3 / 30 इत्यात्मनेपदे " अपाच्चतुष्पात्" 4 / 4 / 95 इति स्सटि अपस्किरते वृषभो हृष्टः, अपस्किरते कुक्कुटो भक्ष्यार्थी, अपस्किरते श्वा आश्रयार्थी / कर्मकर्तरि " एकधातौ० " 3 / 4 / 86 इति जिक्यात्मनेपदेषु प्राप्तेषु “भूषार्थ." 3493 इति क्यज्योः प्रतिषेधे अवकिरते पांसुः स्वयमेव / " इसिजा." 4 / 4 / 36 इति वेटि "वृतो नवा० " 4 / 4 / 35 इति वेटो दीघे, अनिसिचः " ऋवर्णात् " 4 / 3 / 36 इति कित्त्वे अवाकीष्ट पांसुः स्वयमेव; पक्षे अवाकरिष्ट, अवाकरीष्ट; करिता, करीता / किति " ऋवर्णश्यू० " 4 / 4 / 57 इति नेट् , कीर्णः, कीर्णवान् , कीर्वा / "ऋस्मिपू." 4 / 4 / 48 इति सनि इटि चिकरिषति, चिकरीषति / अस्य इटो न दीर्घ इत्येके / उपपूर्वस्य " उपाकिरो" 5 / 4 / 72 इति णमि " किरो वने" 4 / 4 / 93 इति स्सटि च उपस्कारं मद्रका लुनन्ति / " प्रतेश्च वधेः". 4 / 4 / 94 इति सटि प्रतिस्कीर्णम् , उपस्कीर्णम् ह ते वृपल भूयात् / “स्कृच्छ्रतो० " 4 / 3 / 8 इति गुणे " प्रतिचस्करे नखैः " [ शिशुपालवध 1147] / " नाम्युपान्त्य०" 5 / 154 इति के किरः सूकरः / “वौ विष्किरो०" 4496 इति वा स्सटि विष्किरः, " असोङ० " 2 / 3 / 48 इत्यत्र षत्वम् - विकिरश्च पक्षी / " युवर्ण०" 5 / 3 / 28 इति अलि “वर्चस्का०" 3 / 2 / 48 इति निपातनाद् अवस्करः वर्चस्कम् / अवकरः अन्यः / उन्निपूर्वस्य " किरो धान्ये " 5 / 3 / 73 इति घनि उत्कारः, निकारः धान्यस्य / अलि उत्करः निकरोऽन्यस्य / उणादौ " ऋतष्टित् " ( उ० 9) इति 1. " ऋतष्टित् " [ उ० 9] इति सूत्रे मश् हिंसायाम् इत्यस्माद् धातोः मर्मरशब्दः .. साधितः //