________________ आचार्य श्रीहेमचन्द्रविरचिते [धा० 17 "वाऽऽक्रोशदैन्ये". 4 / 2 / 75 क्षीताऽऽयुः, क्षिणाऽऽयुः, जाल्मः / क्षितकः क्षीणकः तपस्वी / यपि क्षेः क्षी [4 / 3 / 89 ] प्रक्षीय, उपक्षीय / " क्षय्य-जय्यौ शक्ती" 4 / 3 / 90 इति ये निपातनादयि क्षेतुं शक्यं क्षय्यम् ; शक्तेरन्यत्र क्षेयम् / “जीणदृ-क्षि० " 5 / 2 / 72 इति इनि क्षयशील: क्षयी / स्त्रियां तो क्षितिः / भिदायडि क्षिया / आधारे " पुनाम्नि" 5 / 3 / 130 इति घे क्षयः गृहम् / उणादौ "अतिरि०" ( उ० 338 ) इति मे क्षेमम् / " हुयामा०" (उ० 451 ) इति त्रे क्षेत्रम् / किं क्षये [ 1110 ], क्षयति / क्षिपशु हिंसायाम् [8134 ], क्षिणाति // अथोदन्तः सेट् च // 18 पुत् प्रेरणे'। “प: सो०" 21398 इति से सुवति / षोपदेशत्वाद् " नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे सुषाव, सुषुवतुः / " उपसर्गात् सुग्०" 2 / 3 / 39 इति षत्वे आभषुवति, अव्यवायेऽपि अभ्यषुवत् / सविता / किति " उवर्णात् " 4 / 4 / 58 इति ने , सूतः, सूतवान् , सूत्वा / सनि " ग्रहगुहश्च० " 4 4.59 इति नेट् , “णिस्तोरेवा०" 21337 इति नियमात् षत्वाभावे सुसूपति / " प्रात्सूजोरिन् " 5 / 2 / 71 प्रसवशीलः प्रसवी / पूडोक् प्राणिगर्भविमोचने [2149 ], सूते / पूडौच प्राणिप्रसवे [399], सूयते // . ____ अथ ऋदन्तोऽनिट च // ___-- 19 मृत् प्राणत्यागे' / " मृयतेरद्यतन्याशिषि च " 3 / 3 / 42 इति आत्मनेपदे "रिः शक्या०" 4 / 3 / 110 इति रौ " धातोरिव!" 2 / 1 / 50 इति इयि म्रियते / " ऋवर्णात् " 4 / 3 / 36 इति सिजाशिषोरात्मनेपदे कित्वाद् गुणाभावे अमृत, मृषीष्ट; शिदादेरन्यत्र “शेषात्" 3 / 3 / 100 इति परस्मैपदे ममार, मम्रतुः / " हनृतः० " 4 / 4 / 49 इति इटि मरिष्यति / सनि मुमूर्षति / अनुस्वारेच्चान्नेट् , मर्ता, मृतः / अचि अमरः / अभिमरः तीक्ष्णः / णके मारकः / पनि मारः / उणादौ " अदुपान्त्य० " ( उ० 14) इति अः, सरूपे च द्वे रूपे पूर्वस्य चाऽन्ते अः, मरमरः अनुकरणशब्दोऽयम् / " दृकुन 0" ( उ० 27) इति अके मरकः / जपदशमृन्यो द्वेरश्वादौ" ( उ० 47 ) इति ईके. ममरीकः अग्निः / " मृमन्यमि० " ( उ० 58) इति ऊके मरूकः निर्दन्तेभः / " मृत्र