________________ 7 ] धातुपारायणे तुदादयः (5) की, आकृष्टः / क्तो कृष्टिः / उणादौ " कृषेर्गुणवृद्धी च वा" ( उ० 31) इति अके कर्षकः कृषकः, परशुः, कार्षकः, कृषकः कुटुम्बी। “पापुलि०" ( उ० 41 ) इति किति इके कृषिकः पामरः / " ध्वीह्वा०" ( उ० 183) इति किति णे कृष्णः। " नाम्युपान्त्य० " ( उ० 609) इति किद् इ., कृषिः / " कृषचमि०" (उ० 829) इति ऊः, कर्षः नदी / कृषं विलेखने [ 11506 ], कर्षति // अथ मुचादयोऽष्टौ / तत्राद्याः पश्चाऽनिट उभयपदिनश्च, त्रयः परस्मैपदिनः खिदिवर्जाः सेटश्च / तत्र चान्तौ '6 मुलंती मोक्षणे' / " मुचादि०" 4 / 4 / 99 इति स्वरात्परे नेऽन्ते मुश्चते, मुश्चति / मुमुचे, मुमोच / लुदित्वादङि अमुचत् / आत्मनेपदे तु “धुड्इस्वाद्" 4370 इति सिचो लुकि अमुक्त / अनुस्वारेवानेट् , मोक्ता, मुक्तः / " अव्याप्यस्य 0" 4 / 1 / 19 इति सनि वा मोकि द्वित्वाभावे च " एकधातौ० " 3 / 4 / 86 इति क्यस्य "भूषार्थ० " 3 / 4 / 93 इति प्रतिषेधे मोक्षते वत्सः स्वयमेव पक्षे मुमुक्षते / धनि निर्मोकः / उणादौ " मावावदि." ( उ० 564) इति से मोक्षः / " नाम्युपान्त्य०" ( उ० 609) इति किदो मुचिः, न मुञ्चति, न न मुञ्चति वा नमुचिः; नखादित्वात् साधुः / मूत्रम् इति तु "सूमूखनि०" ( उ० 449 ) इति किति त्रुटि मवतेः // '7 पिचीत् क्षरणे' / “पः सो०" 2 / 3 / 98 इति से " मुचादि०" 4 / 4 / 99 इति ने सिञ्चते, सिञ्चति / षोपदेशत्वात् " नाम्यन्तस्था०" 2 / 3 / 15 इति षत्वे सिषिचे, सिषेच / सोपसर्गस्य " स्थासेनि०" 2 / 3 / 40 इति आदेरपि सस्य षत्वे अभिषिञ्चति, अव्यवायेऽपि अभ्यपिश्चत् , द्वित्वेऽपि अभिषिषेच, अभिपिषिक्षति; सोपसर्गात् सिञ्चतेः णौ अभ्यपीषिचत् / ण्यन्तस्य उपसर्गयोगे पूर्वस्य न षत्वम् , अभ्यसीषिचत् / " ह्वालिप्सिचः" 3 / 4 / 62 इति अङि असिचत् / " वाऽऽत्मने" 3 / 4 / 63 असिचत, असिक्त / " णिस्तोरेवा० " 2 / 3 / 37 इति नियमात षत्वाभावे सिसिक्षति / यडि " सिचो यडि" 2 / 3 / 60 इति निषेधे सेसिच्यते, अभिसेसिच्यते / अनुस्वारेच्चान्नेट, सेक्ता, सिक्तः / “नीदाव०" 5 / 2188 इति करणे वटि सेक्त्रम् / सिंह इति तु हिंसेः सिम् च" (उ० 588) इति हे हिंसेः //