________________ 250 ] आचार्यश्रीहेमचन्द्रविरचि [ धा०८ अथ दान्तः // 8 वितॄती लाभे' / " मुचादि० " 4 / 499 इति ने विन्दते, विन्दति / विविदे, विवेद / “वेत्तेः कित्" 3 / 4 / 51 इति परोक्षाया वा आम् विन्दतेरपि इत्येके, तन्मते विदाञ्चकार, विवेद / अद्यतन्यां लदित्वादङि अविदत् ; आत्मनेपदे सिचो लुकि अवित्त / अनुस्वारेवान्नेट् , वेत्ता, वित्तः, वित्तवान् / " वित्तम्" 4 / 2 / 82 इति निपातनानत्वाभावे वित्तं धनं प्रतीतं च / क्वसौ "गमहन०" 4 / 4 / 83 इति वेटि विविदिवान् , विविद्वान् / " लिम्पविन्दः" 5 / 1 / 60 इति शे विन्दः / अणपवादे " निगवादे०" 5 / 1161 इति शे गोविन्दः, अरविन्दः / " यावतो विन्द०" 5 / 4 / 55 इति गमि यावद्वेदं भुङ्क्ते / - अथ पान्तौ // 'लुप्लंती छेदने' / मुचादित्वाने लुम्पते, लुम्पति / लुलुपे, लुलोप / लदिश्वादङि अलुपत् / आत्मनेपदे तु " धुड़० " 4 / 3 / 70 इति सिजूलुकि अलुप्त / " गृलुप० " 3 / 4 / 12 इति गर्वार्थाद् यङि लोलुप्यते / अनुस्वारेच्चान्नेट् , लोप्ता, लुप्तः, लुप्तिः / घनि लोपः / उणादौ " हुयामा०" ( उ० 451) इति त्रे लोपत्रम् अपहृतं द्रव्यम् // ___ 10 लिपीत् उपदेहे ' / उपदेहः वृद्धिः / मुचादित्वान्ने लिम्पते, लिम्पति / लिलिपे, लिलेप / " ह्वालिप्० " 3 / 4 / 62 इति अङि अलिपत् / " वाऽऽत्मने" 34 / 63 अलिपत, अलिप्त / अनुस्वारेच्चान्नेट , लेप्ता, लिप्तः / “लिम्पविन्दः" 5 / 1 / 60 इति शे लिम्पः / “निगवादे०" 5 / 1 / 61 इति शे निलिम्पा नाम देवाः / णके स्त्रियामापि विलेपिका, अनुलेपिका / / अथ परस्मैपदिषु तान्तः // 11 कृतैत् छेदने' / " शेषात" 3 / 3 / 100 इति परस्मैपदे मुचादित्वान्ने कृन्तति / चकर्त, कर्तिता / सादौ अशिति " कृतचूत.” 4450 इति वेटि कर्त्यति, कर्तिस्यति, चिकृत्सति, चिकर्तिपति / सिचि तु नित्यमिटि अकर्तीत् / वेटत्वात् क्तयोर्नेट् , कृत्तः, कृत्तवान् / ऐदित्त्वाद् यङ्लुबन्ताद् अनेकस्वरादपि क्तयोर्नेट , चरीकृत्तः, चरीकृत्तवान् / विपि कृत् / नन्द्याधने कर्तनः / उणादौ "कृतिपुति." (उ० 76 ) इति किति तिके कृत्तिका / " कृत्यशोभ्यां स्नक" ( उ० 296) कृत्स्नम् / " कृतेः कृच्छौ च" ( उ० 395) इति रे क्रूरः,