________________ 246 ] आचार्यश्रीहेमचन्द्रविरचिते [ पा० 29 शस्य द्वित्वे अशिशिषते / " अटथति०" 3 / 4 / 10 इति यङि अशाश्यते / वेट्वात् क्तयोर्नेट् , अष्टः, अष्टवान् / उणादौ " कुवापा०" ( उ० 1 ) इति उणि आशुः व्रीहिः / " इध्यशि०" ( उ० 77) इति तककि अष्टका पितृदेवत्यं कर्म / [" अशेर्डित् " ( उ० 87 ) इति ] अशेडिंति खे खं नमः / “अशो रश्चादौ" ( उ० 270 ) इति अने रशना / शुपूर्वस्य अशुपूर्वस्य वा " श्वसुरकुकुन्दुर०" (उ० 426) इति उरे निपातनात् श्वसुरः / स्त्रियां " नारीसखी०" 0476 इति निपातनाद् ऊङि श्वश्रः / “मीज्यजि." ( उ० 439) इति सरे अक्षरम् / " अश्नोरीच्चादेः" (उ० 442) इति वरटि ईश्वरी / “पप्यशोभ्यां तन्" (उ० 903) अष्टौ / " लटिखटि०" ( उ० 505) इति वे अश्वः / " मावावदी." ( उ० 564 ) इति से अक्षः / " अशोरश्वादिः" ( उ० 622) इति. णिदिः, राशिः / “सदिवृति० " ( उ० 680) इति अनौ अशनिः / “अशोरशादिः" (उ० 688 ) इति मौ रश्मिः / " तङ्किवक्रि० " ( उ० 692) इति रौ अधिः / " पुषिप्लुषि०" (उ० 707) इति सिकि अक्षि / “अशेर्यश्वादिः" (उ० 958) इति असि यशः / अशश भोजने [ 851 ], अश्नाति // इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे टित्स्वादिगणः अनुविकरणः संपूर्णः //