________________ 29 ] धातुपारायणे स्वादयः (4) [ 245 अथ वान्तो सेटौ च // 25 कृवुटु हिंसाकरणयोः' / “श्रौतिकृयुधिवु०” 4 / 2 / 108 इति क्रादेशे कृणोति, कृणुतः, कृण्वन्ति / उदित्वान्ने चकृण्व, कृण्विता || '26 धिवुट गतौ' / प्रीणनेऽप्यन्ये / "श्रौतिकवुधिवु०" 4 / 2 / 108 इति ध्यादेशे धिनोति, धिनुतः, धिन्वन्ति / उदित्वान्ने दिधिन्व, धिन्विता, धिन्वितुम् / ये तु अन्यैरिह अष्टौ पठिता अड व्याप्ती, दघ घातने, ऋक्षि-चरि-जरिदास-द्रु हिंसायामिति, उदाहृताश्च, अणोति, दध्नोति, ऋक्ष्णोति / केचित्तु ऋक्षि छिन्दन्ति ऋणोति, क्षिणोति, चिरिणोति, जिरिणोत, इति, ते लौकिकाः इति अस्माभिरुपेक्षिताः / / अथ षान्तः सेट् च // _' 27. निधृपाट् प्रागल्भ्य' / धृष्णोति, दधर्ष, धर्षिता / "धृषशसः प्रगल्भे" 4 / 4 / 66 इति क्तयोनेंट् , धृष्टः, धृष्टवान् ; नित्त्वादत्र " ज्ञानेच्छा०" 5 / 2 / 92 इति सति क्तः, प्रागल्भ्यार्थादन्यत्र इटि " न डीङ्" 4 / 3 / 27 इति किवाभावाद् गुणे धर्षित:, धर्षितवान् / आदित्वाद् " नवा भावारम्भे" 4 / 4 / 72 इति वा नेट् , धृष्टमनेन, धर्षितमनेन, प्रधृष्टः, प्रधर्षितः / विपि “ऋत्विज-दिश०" 2 / 1161 इति गत्वे, निर्देशादेव द्वित्वे च दधृक् / " त्रसिगृधि०" 5 / 2 / 32 इति वनौ धर्षशीलः धृष्णुः / " तृषिधृषि०" 5 / 2180 इति नजिङि धृष्णक् / " शासू-युधि०" 5 / 3 / 141 इति खलपवादेऽने दुर्धर्षण: / " शकधृष०" 5 / 4 / 90 इति तुमि धृष्णोति गन्तुम् / धृषण प्रसहने [ 9 / 412 ], " युजादे." 3 / 4 / 18 इति वा णिचि धर्षयति, धर्षति // अथाऽऽत्मनेपदिनौ सेटौ च // ' 28 टिघिट आस्कन्दने' / “पः मो० " 2 / 3 / 98 इति से निमित्ताभावात् टस्य ते " इङितः० " 3 / 3 / 22 इत्यात्मनेपदे स्तिश्नुते / पोपदेशत्वाद् " नाम्यन्तस्था० " 2 / 3 / 15 इति पत्वे तिष्टिधे / स्तेधिता // 29 अशौटि व्याप्तौ' / संघातेऽप्यन्ये / अश्नुते / " अनातो." 4 / 1 / 69 इति पूर्वस्य आत्वे नेऽन्ते च आनशे / औदित्त्वाद् वेट , अष्टा, अशिता / सनि “ऋस्मिपूड० " 4 / 4:88 इति इटि " स्वरादे० " 4 / 1 / 4 इति द्वितीयां