________________ 244 ] आचार्य श्रीहेमचन्द्रविरचिते [ धा० 22 अथ पान्तौ // -- 22 आप्लँट् व्याप्ती' / आप्नोति. आप / लुदिचादङि आपत् / अनुस्वारेत्वान्नेट , आप्ता / " गत्यर्था० " 5 / 1 / 11 इति वा कर्तरि ते प्राप्तो धर्मम् ; पक्षे कर्मणि प्राप्तो धर्मोऽनेन; भावे प्राप्तमनेन / सनि “ज्ञप्यापो०" 4 / 1 / 16 इति ईपि द्वित्वाभावे च ईप्सति / यपि " वाऽऽप्नोः" 4 / 3 / 87 इति णेर्वा अयि प्रापय्य, प्राप्य / " व्याप्ये तेन:” 2 / 2 / 99 इति कर्मणि सप्तम्यां समाप्तमनेन श्रुतमिति " इष्टादेः " 7 / 1 / 168 इनि समाप्ती श्रुते / क्तौ प्राप्तिः / उणादौ " आपोऽप् च" ( उ० 238 ) इति दे अब्दः / " तृभ्रम्मि० " ( उ० 611) इति औ अपादेशे च अपि / “आपोऽप् च" ( उ० 776) इति तुनि अप्तुः कालः / “आपोऽप् च" ( उ० 823) इति आलौ अपालुः वायुः / “आपोऽप् च" ( उ० 861 ) इति तः, अप्ता यज्ञः / "आप: क्विप् ह्रस्वश्व " ( उ० 931) इति विपि आपो जलम् / अम्भ इति तु " अमेर्भही चान्तौ " ( उ० 962 ) इति अमेः असि // . ___ '23 तृपट प्रीणने ' / क्षुम्नादित्वाण्णत्वाभावे तृप्नोति, ततर्प, तर्पिता, तृपितः। तृपौच प्रीती [ 3 / 46 ], तृष्यति, तृप्तः // . ___ अथ भान्तः सेट् च // '24 दम्भूट दम्भे' / दभ्नोति, ददम्भ / “दम्भः" 4 / 1 / 28 इति स्वरस्य एत्वे, नलुकि द्वित्वाभावे च देभतुः / “थे वा" 4 / 1 / 29 देभिय, ददम्भिथ / दम्भिता / सनि " इवृध०" 4 / 4 47 इति वेटि दिदम्भिषति; पक्षे " दम्भो धिप धीप्" 4 / 1 / 18 न च द्विः, धिप्सति, धीप्सति / ऊदिचात् क्त्वि वेट , दब्ध्वा, दम्भित्वा; वेट्त्वात् क्तयोर्नेट् , दब्धः, दब्धवान् / विपि पदान्ते " गडदबादे०" 2 / 1 / 77 इति आदेश्चतुर्थे विधप् , विधव् / उणादौ "ऋज्यजि" 0 (उ० 388 ) इति किति रे दम्रः //