________________ 12 ] धातुपारायणे स्वादयः (4) [241 __अथ परस्मेपदिषु इदन्तोऽनिट् च // '10 हिंट गतिवृद्धयोः' / “शेषात्० " 3 / 3 / 100 इति परस्मैपदे हिनोति / “अदुपसर्गा." 2 / 3 / 77 इति णत्वे प्रहिणोति / " अङे हि०" 4 / 1 / 34 इति होघे प्रजिघाय, सनि जिधीपति / यङि जेधीयते, हे तु घाऽभावे प्राजीहयत् / अनुस्वारेच्चान्नेट , हेता, प्रहितः / ' सातिहेति०" 5 / 3 / 94 इति क्तौ निपातनाद् हेतिः / अचि अलि वा हयः / गौरादित्वाद् झां हयी अश्वा / उणादौ "घुयुहि." ( उ० 24) इति किति के हीकः पक्षी / “क्षुहिभ्यां वा" ( उ० 341 ) इति वा किति मे हिमम् , हेमम् / मनि हेम / " कृसिकम्मि०" ( उ० 773 ). इति तुनि हेतुः // - अथोदन्तावनिटौ च // '11 श्रृंट् श्रवणे' / गतौ इन्यन्ये / " श्रौतिकृवु० " 4 / 2 / 108 इति शः, शणोति / " समोगमृच्छि” 3 / 384 इत्यात्मनेपदे संशृणुते, कर्मणि तु सति परस्मैपदे संशृणोनि हितम् / शुश्राव / " स्क्रसृवृ० " 4 / 4 / 81 इत्यत्र श्रीवर्जनाद् इडभावे शुश्रीथ / सनि " श्रुवोऽनाङ० " 3 / 3 / 71 इत्यात्मनेपदे शुश्रूषते धर्मम् , आप्रतेस्तु परस्मैपदे आशुश्रूपति, प्रतिशुश्रूषति / “प्रत्याङः श्रुवा०" 2 / 2 / 56 इति चतुर्थी मैत्राय प्रतिशृणोति, मैत्राय आशणोति / अनुस्वारेच्चान्नट् , श्रोता, श्रुतः, श्रुतवान् / णौ सनि " श्रु-सु-द्र०" 4161 इति पूर्वस्य उतः .. वेत्वे शिश्रावयिषति, शुश्रावयिषति / हु " असमानलोपे० ' 4 / 1 / 63 इति सन्व द्भावे अशिश्रवत् , अशुश्रवत् / " ग्रहादिभ्यो." 5 / 1153 इति णिनि श्रावी / गणनिपातनाद् हुस्वे श्रवी इत्येके / " श्रुसद० " 5 / 2 / 1 इति भूतमात्रे वा परोक्षा शुश्राव, पक्षे अश्रौषीत् , अशृणोत् / " तत्र वसु०" 5 / 2 / 2 इति क्वसौ शुश्रुवान् / विपूर्वात् " क्षुश्रो." 5 / 3 / 71 इति पनि विश्रामः / " श्वादिभ्यः" 5 / 3 / 92 इति क्तौ श्रयतेऽनया इति श्रुतिः / करणे अनटि श्रवणं कर्णः / उणादौ " तृकश 0 " ( उ० 187) इति अणे श्रवणः अश्वत्थः कर्णश्च / "हुयामा०" ( उ० 451 ) इति त्रे श्रोत्रम् / “कावावी०" (उ० 634 ) इति णौ श्रोणिः / " अस्" ( उ० 952 ) इति असि श्रवः. विश्रवाः // . 12 टुकुंट उपतापे' / दुनोति, दुदाव / अनुस्वारेचान्नेट , दोता / "दुगो०" 4 / 2 / 77 इति क्तयोस्तस्य नत्वे उत्वे च दूनः, दूनवान् /