________________ 240 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 7___ अथ ऋदन्तास्त्रयोऽनिटश्च // 7 स्तुंग्ट आच्छादने' / स्तृणुते, स्तृणोति / "संयोगाद्” 4 / 3 / 9 इति गुणे तस्तरे, तस्ततः / क्थे " क्ययडा०" 4 / 3 / 10 इति गुणे आस्तार्यते; यङि तास्तयते / अनुस्वारेचान्नेट् , स्तर्ता, विस्तृतः / विस्तीर्ण इति तु स्तुणातेः // '8 कुंगट हिंसायाम् ' / कृणुते, कृणोति; चक्रे, चकार / अनुस्वारेवान्नेट, कर्ता, कृतः / डुकंग करणे [ 11888 ], करोति, करति // 9 वृगट वरणे' / घृणुते, वृणोति, वने, ववार / थवि "ऋवृ०" 4 / 4 / 80 इति इटि ववस्थि / " स्क्रसृवृ०॥ 4 / 4 / 81 इत्यत्र अस्य वर्जनाद् इडभावे ववृव, ववृम / " वृतो नवा०" 4 / 4 / 35 इति इटो वा दीर्घ प्रावरिता, प्रावरीता; आशिषि सिचपरस्मैपदे च दीर्घाभावे प्रावरिषीस्ट, प्रावरिष्टाम् / " इट् सिजाशिषो०" 4 / 4 / 36 इति वेटि प्रावरिष्ट, प्रावरीष्ट, प्रावृतः प्रावरिषीष्ट, प्रावृषीष्ट / सनि " इवृध० " 4 / 4 / 47 इति वेट् , विवरिषति विवरीषति, वुवूर्षति / " ऋवर्णश्य०" 4 / 4 / 57 इति किति नेट , वृत्वा, वृतः, वृतवान् / कर्मणोऽणि "घन्युपसर्गस्य० " 32 / 86 इति बाहुलकाद् दीर्घे कुचं वृणोति कूचवारः / "वर्योपसर्या० " 5 / 1 / 32 इति निपातनाद् ये वयम् उपेयम् चेत् ; स्त्री वर्या, अन्यस्तु "दृ-वृग०" 5 / 1 / 40 इति कपि वृत्यः / बाहुलकाद् घ्यणि ण्यन्ताद्वा ये वार्यम् / “भृवृजि०" 5 / 1 / 112 इति खे पतिवरा कन्या / “युवर्ण" 5 / 3 / 28 इति अलि वरः / “नेवुः" 5 / 3 / 74 इति पनि नीवारः ब्रीहिः / " वृगो वस्त्रे " 5 / 3 / 52 इति वालि प्रवरः; पक्षे घजि “घञ्युपसर्गस्य 0" 3286 इति दीघे प्रावारः / उणादौ " विचिपुषि०" ( उ० 22) इति किति के वृकः / “जकृत 0" (उ० 173) इति अण्डे वरण्ड: इक्ष्वादिसंचयः / " तकश 0" ( उ० 187 ) इति अणे वरणः वृक्षः / “कगश 0" (उ० 441) इति वरटि वर्वरः कुञ्चितः केशः / " वृगनक्षि० " ( उ० 456 ) इति अत्रे वस्त्रा। प्यन्तात् " स्वरेभ्य०" ( उ० 606) इति औ वारि: गजग्रहणगर्ता, वारि जलम् / "अजिस्था०" ( उ० 768) इति णौ वणुः हृदः / “वाारौ" (उ० 944) इति निपातनात् क्विपि वाः जलम् / वरूथ इति तु " वृभ्याम्थः " (उ० 236) इति ऊथे वृणातेः / वर्ण इत्यपि " इणुर्विशा०" (उ० 182) इति णे वृणातेः /