________________ 5] धातुपारायणे स्वादय: (4) [ 239 णौ " चिस्फुरो०" 4 / 2 / 12 इति वा आत्वे " अतिरी०" 4 / 221 इति पौ उच्चापयति, उच्चाययति / “संचाय्य०" 5 / 1 / 22 इति ध्यणि निपातनात् संचाय्यः क्रतुः / " य एचा०" 5 / 1 / 28 इति ये संचेयम् अन्यत् / “धाय्यापाय्य." 5 / 1124 इति निपातनाद् निकाय्यः निवासः, निवेयः अन्यः / “परिचाय्योपचाय्या०" 5 / 1 / 25 इति निपातनात् परिचाय्यः अग्निः; एवमुपचाय्यः, चित्यः / परिचयः, उपचेयः, चेयश्चान्यः / “अग्निचित्या०" 5 / 1137 इति भावे क्यपि निपातनाद् अग्नेः चयनम् अग्निचित्या / " अग्नेश्वैः " 5 / 1 / 164 इति क्विपि अग्निचित् / " कमण्यग्न्यर्थे " 5 / 1 / 165 श्येन इव चीयते स्म श्येनचित् , रथचक्रचित् / " हस्तप्राप्ये" 5 / 3 / 78 इति अलपवादे पनि पुष्यप्रचाय: / “चितिदेहा०" 5 / 379 इति पनि 'आकायमग्नि चिन्वीत', कायः, निकायः, गोमयनिकायः / " संघऽनूर्वे" 5 / 3 / 80 साधुनिकायः; सोचे तु "युवर्ण" 5 / 3 / 28 इति अलि मूकरनिचयः / स्त्रियां क्तौ चितिः / उणादौ " चिजि०" ( उ० 392 ) इति रे दीर्धे च चीरम् / “चिमिदि० " ( उ० 454 ) इति किति त्रे चित्रम् , चित्रा / केचित्तु चिगण चये इति चुरादौ पठन्ति तस्य च घटादित्वं “चिस्फुरोनवा" 4 / 2 / 12 इति आत्वाभावं चेच्छन्ति, तन्मते चययति / आत्वमपि अन्ये चापयति / णिजभावे तु चयते, चयति // .. __ अथीदन्तः सेट् च // '6 धृगटु कम्पने' / धूनुते, धूनोति; दुधुवे, दुधाव / थवि "स्क्रसृवृ०" 4 / 4 / 81 इति इटि दुधविथ / “धूगौदितः" 4 / 4 / 38 इति वेट् धोता, धविता / सिचि " धृगुसुस्तोः०" 4 / 4 / 85 इति इटिः अधावीत् ; आत्मनेपदे तु वेटि अधोष्ट, अधविष्ट / णौ "धूगग्रीगो०" 4 / 2 / 18 इति ने विधूनयति / " लूधूसू०" 5 / 2 / 87 इति इत्रे धूयतेऽनेन इति धवित्रमित्येके / पेटत्वात् क्तयोर्नेट, अवधृतः, धूतः, धृतवान् / “युवर्ण० " 5 / 3 / 38 इति अलि धवः / उणादौ " ध्रुधृन्दि०" ( उ० 29 ) इति किति अके क्षिपकादित्वाद् इत्वाभावे धूवका आवपनविशेषः / " विलिमिलि० " ( उ० 340) इति किति मे धमः / "कृधूतनि० " ( उ० 440 ) इति किति सरे धूसरः / उदन्तोऽनिट चायमित्यन्ये, धुनुते, धुनोति; धोता, विधुत: / धूत् विधूनने [5 / 116 ], धुवति / धूगशू कम्पने [ 8 / 13 ], धुनीते, धुनाति / धूगण कम्पने [ 9 / 379 ], धूनयति, णिजभावे धवते, धवति //