________________ 238 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० १सूपः / “अर्तीरि०" (उ० 338) इति मे सोमः / “ऋज्यजि." (उ० 388) इति किति रे सुरः, सुरा / सुं प्रसवैश्वर्ययोः [ 1 / 17 ], सवति / धूक प्रसवैश्वर्ययोः [ 2 / 20 ], सौति / टित्त्वं स्वादित्वज्ञापनार्थ सर्वत्र ज्ञेयम् // ___अथेदन्ताश्चत्वारोऽनिटश्च // '2 पिंगट बन्धने' / “पः सो." 2 / 3 / 98 इति से सिनुते, सिनोति / षोपदेशत्वाद् " नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे सिष्ये, सिपाय / अनुस्वारेस्वानेट् , सेता / " सेासे०" 4 2 / 73 इति क्तयोस्तस्य नत्वे सिनो ग्रासः स्वयमेव / “प्रसितोत्सुका०" 2 / 2 / 49 इति आधारे वा तृतीयायां केशैः प्रसितः, केशेषु प्रसितः / परि-नि-विपूर्वस्य " सयसितस्य " 2 / 3 / 47 इति षत्वे परिषितः, निषितः, विषितः; अचि परिषयः, निषयः, विषयः / णके सायक: / “दाटूधेसि०" 5 / 2 / 36 इति रौ सयनशीलः सेरुः / " नीदा० " 5 / 2 / 88 इति टि सेत्रम् / उणादौ " सुसि० " ( उ० 203) इति किति ते वा दीर्घ च सीता सस्यम् , सितः शुक्लः / " सेर्वा " ( उ० 262 ) इति किति ने सिनः कायः; कित्वाभावे सेना / “चिजि०" (उ० 392) इति रे दीर्वं च सीरं हलम् / "ऋज्यजि." (उ० 388 ) इति किति रे सीरा / " कृसिकम्मि०" ( उ० 773 ) इति तुनि सेतुः // '3 शिंग्ट् निशाने ' / निशानं तनूकरणम् / शिनुते, शिनोति / शिश्ये, .. शिशाय / अनुस्वारेवान्नेट , शेता, शितः // '4 डुमिंगट प्रक्षेपणे' / मिनुते, मिनोति, प्रमिनोति / मिम्ये, मिमाय / अनुस्वारेत्वाभेट् , मित: / यबक्डिति " मिग्मीगो०" 4 / 2 / 8 इति आत्वे निमाय, प्रमाता; खलचलि तु न आत्वम् , दुर्मयः, मयः, प्रमयः / सनि " मिमीमा० " 4 / 1 / 20 इति स्वरस्य इत्वं द्वित्वाभावश्च, प्रमित्सते, प्रमित्सति / विचात् त्रिमकि मानेन निवृत्तं मित्रिमम् / उणादौ " मिग: खलश्चैञ्च" ( उ० 497 ) मेखला; चात् कले मेकलः ऋषिः / " मिवहि० " ( उ० 726) इति वा णिद् उः, मायुः पित्तम् ; बाहुलाकाद् न आत्वम् , मयुः किन्नरः // '5 चिंगट चयने' / चिनुते, चिनोति / " नेईमादा०" 2 / 3 / 79 इति नेणत्वे प्रणिचिनुते / सन्परोक्षयोः "चेः किर्वा " 4136 इति वा कित्त्वे चिकीपति, चिचीपति; चिक्ये, चिच्ये / अनुस्वारेवान्नेट , चेता, चितः, आचितम् /