________________ अथ स्वादयः अथ स्वादयो वर्णक्रमेण निर्दिश्यन्ते / तत्राऽपि प्रसिद्धयनुरोधेनाऽऽदौ १खुगट अभिषवे'। 'अभिषवः क्लेदनं 'संधानाख्यं, पीडनमन्थने वा।"षः सो०" 2 / 3 / 98 इति से, गित्वात् फलवत्कर्तरि " ईगितः०" 3 / 3 / 95 इत्यात्मनेपदे, " स्वादेः श्नुः" 3 / 4 / 75 इति श्नौ सुनुते / फलवतोऽन्यत्र "शेषात्" 3 / 3 / 100 इति परस्मैपदे " उश्नोः " 4 / 3 / 2 इति गुणे सुनोति / " उपसर्गात् सुग्० " 2 / 3 / 39 इति षत्वे अभिषुणोति; अव्यवायेऽपि अभ्यषुणोत् , 'अद्वित्वे' इत्युक्तेः पूर्वस्य षत्वाभावे उत्तरस्य तु षोपदेशत्वात् " नाम्यन्तस्था० " 2 / 3 / 15 इति- पत्वे अभिसुषुवे, अभिसुषाव / “सुगः स्यसनि" 22362 इति पत्वप्रतिषेधे अभिसोष्यते; सनि क्विपि अभिसुमः / “णिस्तोरेवा." // 3 // 37 इति नियमात् षत्वाभावे अभिसुसूपति / "वम्य विति वा" 4 / 2 / 87 इति वा उलुकि सुन्वः, सुनुवः; सुन्मः, सुनुमः / अनुस्वारेवान्नेट् , सोता, सुतः, सुतवान् / "धूगसुस्तो०" 4 / 4 / 85 इति सिचि इटि असावीत् ; आत्मनेपदे तु इडभावे असोष्ट / “आसुयु०" 5 / 1 / 20 इति यापवादे घ्यणि आसाव्यम् / “संचाय्यकुण्डपाय्य०" 5 / 1 / 22 इति ध्यणि निपातनाद् राज्ञा सोतव्यो राजा वा सूयते अस्मिन्निति राजसूयः क्रतुः / " सोमात् सुगः" 5 / 1 / 163 इति भूते विपि सोमसुत् / “सुयजोवनिप्" 5 / 1 / 172 सुतवान् , सुत्वा / " णस्वराघोषा." 2 / 4 / 4 इति ङयाम् नो रत्वे सुत्वरी / " सुग द्विषा०" 5 / 2 / 26 इति अशि सुन्वन्तः यजमानाः। “समिणा० " 5 / 3 / 93 इति क्यबपवादे क्तौ आसुतिः / " समज०" 5 / 3 / 99 इति क्यपि सुत्या / उणादौ " विचिपुषि०" ( उ० 22) इति किति के सुकः निरामयः / " सुसितनितुसेर्दीर्घश्च वा" ( उ० 203 ) इति किति ते सुतः, सूतः / “वृतुकुसुभ्यो नोऽन्तश्च" ( उ० 240) इति दे सुन्दः दैत्यः / “सोरू च" ( उ० 263) इति ने सूना घातस्थानम् / “य्वसिरसि०" ( उ० 269) इति अने सवनः / “युसुकु० " ( उ० 297 ) इति पे ऊत्वे च 1. अभिषवः स्नान मिति चान्द्राः, द्र० है. प्र. // 2. सन्धान इति मथाणा, द्र० लिं. दुर्गपद० 12 //