________________ आचार्यश्री हेमचन्द्रविरचिते [ धा० 140 अथ पान्तोऽनिट् च // 140 शपींच आक्रोशे' / शप्यते, शप्यति / शेपे, शशाप / अनुस्वारेवान्नेट् , शप्ता, शप्त्वा, शप्तः / घनि शापः / उणादौ " शाशपि० " (उ० 237) इति दे शब्दः / शपीं आक्रोशे [ 11916 ], शपते, शपति // अथ षान्तः सेट् च // 141 मृषीच तितिक्षायाम् ' / तितिक्षा क्षमा / मृष्यते, मृष्यति / फलवकतयपि " परेर्मषश्च" 3 / 3 / 104 इति परस्मैपदे परिमृष्यति / ममृषे, ममर्प, मर्षिता / " ऋत्तष०" 4 / 3 / 24 इति कत्वो वा किन्वे मृषित्वा, मर्षित्वा / " मृषः क्षान्तौ" 4 / 3 / 28 इति क्तयोः कित्त्वाभावे मर्षितः, मर्षितवान् , क्षान्तेः अन्यत्र धातूनामनेकार्थत्वाद् भूषणादिषु कित्त्वे मृषितः, मृषितवान् / नन्द्याद्यने मर्षणः / " शासूयुधि० " 5 / 3 / 141 इति खलपवादे अने दुर्मर्षणः / मृषू सहने च [ 11528 ], मर्षति / मृषण क्षान्तौ [ 9 / 354 ], अदन्तः, मृषयति / मृपिण तितिक्षायाम् [ 9 / 409 ], “युजादे०" 3 / 4 / 18 इति वा णिचि मर्पयति, मषते // अथ हान्तोऽनिट च // 142 णहीच बन्धने' / " पाठे." 2 / 3 / 97 इति ने नह्यते, नह्यति / णोपदेशत्वाद् " अदुरुपसर्गा० " 2 / 377 इति णत्वे प्रणह्यते / "वावाप्यो०" 3 / 2 / 156 इति पिर्वा अपिनाते, पिनह्यते / नेहे, ननाह / अनुस्वारेचान्नेट् , " नहाहो० " 21185 इति हस्य धे नद्धा, संनद्धः / घमि संनाहः / “नीदाव्०" 5 / 2 / 88 इति त्रटि नद्धी / “क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि " गतिकारकस्य 0" 3 / 2 / 85 इति दीर्घ उपनह्यते इति उपानत् / उणादौ "ऋपूनहि०" (उ० 557) इति उषे नहुषः-राजा / " नहेभ च" (उ० 621 ) इति णिद् इ. नाभिः / नभ इति तु नभ्यतेः [ " अस्" ( उ० 952 ) इति ] असि / नख इति तु नास्य खमस्ति इति बहुव्रीही नखादित्वाद् अदभावे // इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे चित् दिवादिगणः श्यविकरणः संपूर्णः //