________________ 139 ] धातुपारायणे दिवादयः (3) [ 235 शक्तो वा घटः कतुं चैत्रेण / सनि " रभलभ०" 4 / 121 इति स्वरस्य इत्वे द्विवाभावे च शिक्षते, शिक्षति / " शकितकि०" 5 / 1 / 29 इति ये शक्यम् / अचि शकः / वनि शक्वा; " णस्वरा०" 2 / 4 / 4 इति उयां नो रत्वे च शक्वरी / तो शक्तिः / बाहुलकात् घजि शक्यते 'अनेन भोक्तुम् शाकम् / " शकष० " 5 / 4 / 90 इति तुमि शक्यते भोक्तुम् / उणादौ " दिव्यवि०" (उ० 142) इति अटे शकटम् / “कृशकशाखेरोटः" ( उ० 160 ) शकोटः पाहुः / " शकेरुन्त:" ( उ० 223) शकुन्तः / " यम्यजि०" ( उ० 288) इति उने शकुनः / " भीवृधि०" ( उ० 387 ) इति रे शक्र: / " जठर-फ्रकर" ( उ० 403 ) इति अरे करिशकरः हस्तिमल्लः / " शामाश्या०" ( उ० 462) इति ले शक्लः म पुरवाक् / " मृदिकन्दि० " ( उ० 465) इति अले शलम् / " शकेरुन्तिः " ( उ० 666) शकुन्तिः / "शकेरुनिः " ( उ० 684) शकुनिः / " कृपिशकिभ्यामटिः" ( उ० 630) शकटिः / " शक ऋत्" ( उ० 891) शकृत् / अनीदयं मर्षणे श्यविकरणः, अर्थान्तरे तु अनुविकरणः स्वादिपठित एव इत्येके, शक्यति मृष्यते इत्यर्थः / पुष्यादित्वाद् अङि अशकत् / मषेणादन्यत्र स्नो शक्नोति, लुदिचादङि अशकत् / अन्ये तु शक विभाषितो मर्षणे इति पठन्ति व्याचक्षते च मर्षणे शक्नोतेः परस्मैपदं श्ये विकल्प्यते / अङि टौ च शक्यते, शक्यति, अशकीत् , अशकत् , शक्ता, शकिता; अन्यत्र शक्नोति, अशकत् , शक्ता // अथ चान्तः सेट् च // ___ +138 शुचगैच पूतिभावे' / पूतिभावः क्लेदः / गिचात् " ईगितः" 3 / 3 / 95 इति फलवकर्तरि आत्मनेपदे शुच्यते / शुच्यति / “ऋदिच्छवि० " 3 / 4 / 65 इति वा अङि अशुचत् , अशोचीत् , अशोचिष्ट / शोचिता / ऐदित्वात क्तयोर्नेट् , शुक्तः, शुक्तवान् / शुच शोके [ 1199 ], शोचति // अथ जान्तोऽनिट् च // "139 रञ्जींच रागे' / रज्यते, रज्यति / रभे, ररक्ष / अनुम्बारेच्चान्नेट , रक्षा, रङ्गः / “युजभुज० " 5 / 2 / 50 इति घिनणि " अघिनोश्च० " 4 / 2 / 50 इति नलुकि रागी / घजि " भावा०" 5 / 3 / 18 इति नलुकि रागः / आधारे घजि रङ्गः / रञ्जी गगे [ 11896 ], रजते, रजति // 1. अनेन इति भो० इति मु० //