________________ 234 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 132'132 चूरैचि दाहे ' / चूर्यते / चुचूरे / चूरिता / ऐदित्वात् क्तयोर्नेट् , चूर्णः, चूर्णवान् / उणादौ " कावावी. " ( उ० 364 ) इति णौ चूर्णिः वृत्तिः // अथ शान्ताश्चत्वारो लिशिंच् वर्जाः सेटश्च // 133 क्लिशिच उपतापे'। क्लिश्यते / 'परार्थे क्लिश्यतः सतः' [ ] इति तु लक्ष्यम् / चिक्लिशे / क्लेशिता / " पूक्लिशिम्यः" 4 / 4 / 45 इति तक्त्वासु वेट , क्लिष्टः, क्लिशितः; क्लिष्टवान् , क्लिशितवान् , क्लिष्ट्वा / "क्षुधक्लिश० " 4 / 3 / 31 इति कित्वे क्लिशित्वा / " निन्दहिंस०" 5 / 2 / 68 इति णके क्लेशकः / उणादौ " क्लिशः के च” (उ० 530) इति शे केशः / कीनाश इति तु " कनेरीश्चातः " ( उ० 534 ) इति आशे कनतेः / किशोर इत्यपि “कोरचोर०" ( उ० 434) इति निपातनाद् ओरे कृशेः / क्लिशोश् विवाधने [ 8 / 50 ], क्लिश्नाति // 134 लिशिंच अल्पत्वे ' / लिश्यते / लिलिशे / अनुस्वारेचान्नेट् , लेष्टा, लिष्टः / " नाम्युपान्त्य०" 5 / 1154 इति के लिशः / घजि लेशः / लिशंत् गतौ [5 / 103 ], लिशति // 135 काशिच दीप्तौ ' / काश्यते / चकाशे / काशिता / काशितः / णौ डे " उपान्त्यस्या० " 4 / 2 / 35 इति हस्वे अचीकशत् / ऋदिदयमित्येके, तन्मते हुस्वाभावे अचकाशत् / अचि " नामिनः काशे" 32187 इति दीर्धे नीकाशः, प्रतीकाशः / संकाशः / घनि अवकाशः, काश: / उणादौ " वनिकणि." (उ० 162) इति ठे काष्ठम् / काशृङ् दीप्तौ [11830 ], काशते // '136 वाशिच शब्दे' / वाश्यते, ववाशे काकः / वाशिता, वाशितम् / णौ अवीवशत् / ऋदिदयमित्येके, तेषां हस्वाभावे अववाशत् / “क्तेटः०" 5 / 3 / 106 इति अः, वाशा / " नाम्नि पुंसि च" 5 / 3 / 121 इति णके वाशिका / णो नन्द्याधने वाशनः / उणादौ " वाश्यसि०" (उ० 423 ) इति उरे वाशुरः / / अथोभयपदिषु कान्तोऽनिट् च // '137 शकींच मर्षणे' / मर्षणं क्षमा ! " ईगितः" 3 / 3 / 95 इति फलवकर्तरि आत्मनेपदे शक्यते / फलवतोऽन्यत्र “शेषात्०" 333100 इति परस्मैपदे शक्यति / शशाक, अशक्त, अशाक्षीत् / अनुस्वारेवानेट , शक्ता, शक्तुम् , शक्तः, शक्तवान् / " शकः कर्मणि" 4 / 4 / 73 इति कर्मणि क्ते वा नेट , शक्तिः ,