________________ नामाच पति, रियल माया, सम्मका 131 ] धातुपारायणे दिवादयः (3) [233 पतिष्यते; पक्षे ऐश्वर्येऽपि भ्वादित्वात् पतति, लदित्वात् अपप्तत् , पतिष्यति; ऐश्वर्यादन्यत्र पतति अपप्तत् इत्यायेव भवति // अथ रान्ता अष्टौ सेटश्च // __ 125 पूरैचि आप्यायने' / आप्यायनं वृद्धिः / पूर्यते / पुपूरे / " दीपजन० " 3 / 4 / 67 इति कर्तरि वा मिचि अपूरि, अपूरिष्ट / पूरिता / एदित्वात् क्तयोर्नेट् , पूर्णः, पूर्णवान् / " णो दान्तशान्त०" 4 / 4 / 74 इति क्ते वा निपातनात् , पूर्णः, पूरितः / " इङितः०" 5 / 2 / 44 इति अने पूरणशील: पूरणः / " चर्मोदरात्" 5 / 4 / 56 इति णमि चर्मपूरं ददाति, उदरपूरं भुङ्क्ते / " पृष्टिमाने ऊलुक् चास्य वा" 5 / 4 / 57 गोष्पदपूरं वृष्टो मेघ:, गोष्पदप्रम् / " ऊर्द्धवात् पूः शुषः" 5 / 4 / 70 ऊर्ध्वपूरं पूर्णः // 126 घरेङ 127 जूरैचि जगयाम्' / जग क्योहानि: / घूर्यते / जुघरे / घूरिता / ऐदित्वात् क्तयोर्नेट् , " रदाद०" 4 / 2 / 69 इति क्तयोस्तस्य नत्वे घूर्णः, घूर्णवान् // - '127 जूरैचि' / जूर्यते / जूरिता / ऐदित्वात् क्तयोर्नेट् , जूर्णः, जूर्णवान् // * 128 धूरैङ् 129 गूरैचि गतौ' / धर्यते, गूर्यते / दुधरे, जुगूरे / धूरिता, गूरिता / ऐदित्वात् क्तयोर्नेट् , धूर्णः, धूर्णवान् / गूर्णः, गूणवान् / "क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि धूर्यते इति धूः / उणादौ " मुदिगूरिभ्यां टिद्गजौ चान्तौ " ( उ० 404 ) इति अरे गूर्जरः // -- 130 शूरैचि स्तम्भे' / तालव्यादिः / शूर्यते / 'शुगरेरिशरः शरैः [ ] / शरिता / ऐदित्वात् क्तयोर्नेट् , शूर्णः, शूर्णवान् / " नाम्युपान्त्य." 5 / 1 / 54 इति के शूरः // 131 तूरैचि त्वरायाम् ' / गतित्वरायमित्यन्ये / तूर्यते / तुतूरे / तूरिता / ऐदित्वात् क्तयोर्नेट् , तूर्णः, तूर्णवान् / ध्यणि तूर्यम् / " नाम्युपान्त्य 0 " 5154 इति के तूरम् / " इडितः०" 5 / 2 / 44 इति अने तूरणशीलः तूरणः / उणादौ "कावावी." ( उ० 634) इति णौ तूर्णिः त्वरा / घूरादयो हिंसायां च, घूगदयः षडपि हिंसायां चकारात् यथायथमुक्तेषु जरादिषु / तानि एव उदाहरणानि // 1. अस्मिन् सूत्रे (556) वा णम् भवति // .. 3.