________________ 232 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 122" दृकन० " ( उ० 27 ) इति अके जनकः / " स्थाति० " ( उ० 109) इति घे जया / " नमितनि० " ( उ० 139) इति टे नो लुकि च जटा / "जनिपणि० " ( उ० 140 ) इति टे दीर्धे च जाण्टः पक्षी / " ऋशिजनि०" ( उ० 361) इति किति ये “ये नवा" 4 / 2 / 62 इति वा आत्वे जाया, जन्यं रणः / " जठरक्रकर० " ( उ० 403) इति अरे निपातनाद् जठरम् / " पदिपठि० " ( उ० 607) इति इ: जनिः उत्पादः / “कुवापाजि०" ( उ० 1) इति उणि जानु, [ सूत्रे ] जानि इति निर्देशाद् वृद्धिः / " मनिजनिभ्यां धतौ च" ( उ० 721) इति उ:, जतु / " कृसि० " ( उ० 773 ) इति तुनि जन्तुः / " हृषिपुषि० " ( उ० 797 ) इति णौ इन्नुः, जनइन्नुः पिता। " यजिशुन्धि०" ( उ० 801) इति युः, जन्युः जन्म प्राणी च / “जनिहनि०" ( उ० 809 ) इति रौ ताऽऽदेशे च जत्रुः वक्षोंऽससन्धिः / “कमिजनिभ्यां बूः" ( उ० 847 ) जम्बूः / " मन् " ( उ० 911 ) इात मनि जन्म / “रुघर्ति०" (उ० 997) इति उसि जनुः, जनुपी, जन्म // अथ पान्तौ // '123 दीपेचि दीप्तौ' / दीप्यते / कर्तर्यद्यतन्यास्ते " दीपजन० " 3 / 4 / 67 इति वा जिचि तलुकि च अदीपि, अदीपिष्ट / दिदीपे / णौ डे, " भ्राजभास." 4 / 2 / 36 इति वा उपान्त्यहस्वे अदीदिपत् , अदिदीपत् / दीपिता / ऐदित्वात् क्तयोर्नेट् , दीप्तः, दीप्तवान् / " नाम्युपान्त्य०" 5 / 1 / 54 इति के दीपः, प्रदीपः / " स्म्यजस०" 5 / 2 / 79 इति रे दीपनशील: दीपः / " इडितो." 5 / 2 / 44 इति अने " न णिय०" 5 / 2 / 45 इति निषिद्धे तृनि दीपिता / क्तौ दीप्तिः // -- 124 तपिंच ऐश्वर्ये वा' / तपं धूपसंतापे इत्यस्य ऐश्वर्येऽर्थे दिवादित्वमात्मनेपदं च वा विधीयते; तप्यते, तेपे / अनुस्वारेच्चान्नेट् , तप्ता, तप्तः; पक्षे ऐश्वर्येऽपि भ्वादित्वात् प्रतपति, प्रतताप / नन्द्याधने प्रतपनः / " द्विषन्तप० " 5 / 1 / 108 इति खे निपातनात् परन्तप: / एके तु ' तपिंच ऐश्वर्ये' इति धात्वन्तरं दिवादिमाहुः / अन्ये तु भ्वादेरेव ऐश्वर्य संतापे च श्याऽऽत्मनेपदे वा इच्छन्ति / द्रमिलास्तु तपोः' विपर्ययेण पतिंच ऐश्वर्य वा इति पेठुः / भ्वादेरेव पत्ल गतौ इत्यस्य ऐश्वर्ये पक्षे दिवादित्वमात्मनेपदित्वं च समुदितं भवतीत्यर्थः, पत्यते, अपतिष्ट, 1. पतोः इति मु० / नैरुक्ताः पत्यते इत्यैश्वर्यकर्मसु पठन्ति / ( निघण्टु 2 / 21 ) क्षी, त. टि. 207 ) //