________________ 122 ] धातुपारायणे दिवादयः (3) [ 231 आगः / " यजिशुन्धि०" ( उ० 801) इति युः मन्युः / " अस्" (उ० 952) इति असि मनः / " रुघर्ति० " ( उ० 997 ) इति उसि मनुः प्रजापतिः / मांसम् इति तु मानेः " मावावदि०" ( उ० 564) इति से / मठर इत्यपि मठतेः ' ऋच्छिचटि० " ( उ० 397 ) इति अरे / मनूयि बोधने [ 89 ], मनुते / मनिण स्तम्भे [ 9 / 243], मानयते, अलि मानः / / 121 अनिच प्राणने' / अन्यते / “अस्यादे०" 41168 इति पूर्वस्य आत्वे आने / अनिता, अनितः / णान्तोऽयमित्येके, अण्यते, आणे / अन श्वसक् [ 2 / 31, 32 ], प्राणने, अनिति, " द्वित्वेऽप्यन्तेप्य०" 2 / 3 / 81 इति णत्वे प्राणिति // __ 122 जनैचि प्रादुर्भावे' / प्रादुर्भाव: उत्पत्तिः / “जा ज्ञा.” 4 / 2 / 104 इति जाऽऽदाशे, जायते / “गमहन० " 4 / 4 / 83 इति अल्लुकि जज्ञे / " दीपजन० " 3 / 4 / 67 इति अद्यतन्याः कर्तृविहिते ते वा मिचि “न जन" 4 / 3 / 53 इति वृद्धथभावे अजनि, पक्षे सिचि अजनिष्ट / णौ “कगेवनू०" 4 / 2 / 25 इति हस्वे जनयति / "ये नवा" 4 / 2 / 62 इति इति किङति वा आत्वे जायते, जन्यते, जाजायते, जमन्यते / जनिता / णौ " ईगितः " 3 / 3 / 95 इति फलवकर्तरि आत्मनेपदाऽपवादे "चल्याहारार्थे." 3 / 3 / 108 इति परस्मैपदे जनयति धर्मम् / करणे घनि अभिजनः गोत्रम् / ऐदित्वात् क्तयोर्नेट् , “गत्यर्थाकर्मक०" 5 / 1 / 11 इति वा कर्तरि क्ते “आः खनि०" 4 / 2 / 60 इति आत्वे जातः, जातवान् , पक्षे भावे क्ते जातं चैत्रेण / साप्यादपि " श्लिषशीङ०" 5 / 19. इति क्ते अनुजातो माणवकः माणविकाम् , पक्षे कर्मणि क्ते अनुजाता माणविका माणवकेन / " भव्यगेय० " 5 / 117 इति निपादनाद् वा कर्तरि ध्यणि जन्यः चैत्रः, पक्षे भावे जन्यं चैत्रेण / अचि जन: / " वन्याङ् पश्चमस्य" 4 / 265 विजावा / "अनोर्जनेर्डः " 5 / 1 / 168 स्यनुजः / " सप्तम्याः०" 5 / 1 / 169 मन्दुरे जातः मन्दुरजः / " अजातेः पञ्चम्याः " 5 / 1 / 170 मुण्डजं. भयम् / " क्वचित् " 5 / 1 / 171 इति डे 'अनुजः, प्रजाः, पूर्वजः / “भ्राज्यलं." 5 / 2 / 28 इति इष्णौ प्रजनिष्णुः / क्तौ जातिः / अनटि जायते अस्यामपत्यमिति जननी / उणादौ / 1. अनूजः इति मु० //