________________ 230 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 119'119 बुधिं 120 मनिच ज्ञाने' / बुध्यते / बुबुधे / “दीपजन" 3 / 4 / 67 इति कतैयद्यतन्यात्मनेपदे ते वा मिचि तलुकि च अबोधि; पक्षे "धुड्हस्वात् " 4370 इति सिचो लुकि अबुद्ध / अनुस्वारेत्त्वान्नेट् , बोद्धा / " ज्ञानेच्छा." 5 / 2 / 92 इति सति ते राज्ञां बुद्धः / णौ फलवत्कर्तर्यपि " ईगितः " 3 / 3 / 95 इत्यात्मनेपदापवादे “चल्याहारार्थे० " 33108 इति परस्मैपदे बोधयति पद्म रविः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के बुधः / " अजाते:०" 5 / 1 / 154 इति णिनि प्रतिबोधशीलः प्रतिबोधी / गम्यादित्वात् " वयति." 5 / 3 / 1 साधुः / उणादौ "जीणशीदी० " ( उ० 261 ) इति किति ने बुध्नः मूलं रुद्रश्च / " युयुजि० " ( उ० 277) इति किति आने बुधानः सूरिः / “किलिपिलि०" ( उ० 608) इति औ बोधिः-तत्वज्ञानम् / बुधग् बोधने [ 1 / 912 ], बोधते, बोधति, अबुधत् / बुध अवगमने [ 11968 ], बोधति // अथ नान्तास्त्रयो मनिवर्जाः सेटश्च // - 120 मनिच' / मन्यते / " मन्यस्या०" 222164 इति अतिकुत्सने कर्मणि वा चतुर्थी न त्वा तृणाय मन्ये, न त्वा तृणं मन्ये / अनुस्वारेवान्नेट् , मन्ता / “यमिरमि०" 4 / 2 / 55 इति नो लुकि मत्वा / " ज्ञानेच्छा." 5 / 2 / 92 इति सति क्ते राज्ञां मतः / “मन्याणिन्" 5 / 1 / 116 "क्थङ्मानि०" 3 / 2 / 50 इति पुंवच्चे दर्शनीयमानी भार्यायाः / “कर्तुः खा" 5 / 1 / 117 पटुमात्मानं मन्यते पटुंमन्यः / " परत: स्त्री० " 3 / 2 / 49 इति पुंस्त्वापवादे " खित्य०" 3 / 2 / 111 इति हूस्वे पट्विंमन्या, पक्षे " असरूपोऽपवादे." 5 / 1 / 16 इति णिनि पटुमानी / " समज०" 5 / 3 / 99 इति क्यपि मन्या 'कृकाटिकासिरा / संज्ञाया अन्यत्र स्त्रियां तो मतिः / उणादौ " कीचकपेचक०" (उ० 33) इति अके निपातनाद् मेनका / " मनेर्मतमातौ च०" (उ० 100) इति अङ्गे मतङ्गः मातङ्गश्च हस्ती / " शाशपि० " (उ० 237 ) इति दे मन्दः / " मनेरुदेतौ चास्यवा० " ( उ० 612 ) इति औ मुनिः, मेनिः संकल्पः, मनिः धूमवतिः / “भृमृत०" ( उ० 716) इति उः मनु: / " मनिजनिभ्यां धतौ च" ( उ० 721 ) इति उः मधु / " कृसिकमि० " ( उ० 773 ) इति तुनि मन्तुः 1. कृकाटिका ग्रीवापश्चाभागः (अ. चि. टी. 3 / 250 ) /