________________ 118 ] धातुपारायणे दिवादयः (3) [ 229 (उ० 644) इति तौ पत्तिः / “कसिपाद०" ( उ० 835 ) इति णिद् ऊः, पादूः, कपि पादुका / पदणि गतौ [ 9 / 366 ], अदन्तः उपपदयते // '115 विदिच सत्तायाम् ' / सत्ता भावः / विद्यते / विविदे / अनुस्वारेक्वान्नेट , वेत्ता, वित्तः / “किकिलास्त्यर्थयोभविष्यन्ती" 5 / 4 / 16 अस्ति नाम विद्यते नाम तत्र भवान्परदारान् प्रकरिष्यते नावकल्पयामि न श्रद्दधे / “शकघृष" 5 / 4 / 90 इति तुमि विद्यते भोक्तुम् / विदक ज्ञाने [ 2 / 41] वेत्ति, विदितः / विलती लामे [5 / 8 ], विन्दते, विन्दति, वित्त: / वित्तं धनं प्रतीतं च / विदिप विचारणे [ 6 / 25 ]. विन्ते, " ऋही." 4 / 2 / 76 इति वा क्तयोस्तस्य नत्वे वित्तम् , विनम् / यदाह 'वेत्तेर्विदितं विन्तेर्विघ्नं वित्तं च विद्यतेविनम् / वित्तं धने प्रतीते च विन्दतेविनमन्यत्र' // विदिण चेतनाख्याननिवासेषु [ 9 / 242], वेदयते // * 116 खिदिच दैन्ये' / खिद्यते / चिखिदे / अनुस्वारेच्चान्नेट् , खेत्ता, खिनः / खिदंत् परिघाते [ 5 / 12 ], खिन्दति / खिदिपू दैन्ये [ 6 / 24 ],खिन्ते // ___अथ धान्तास्त्रयोऽनिटश्च // 117 युधिंच संप्रहारे' / संप्रहारः हननम् / युध्यते / युयुधे / अनुस्वा• रेवान्नेट् , योद्धा, युद्धः / णौ फलवत्कर्तरि " ईगित:" 3 / 3 / 95 इति आत्मने पदापवादे “चल्याहारा०" 3 / 3 / 108 इति परस्मैपदे योधयति काष्ठं चैत्रः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के युधः / “सहराज." 5 / 1 / 167 इति क्वनिपि सहयुद्धवान् , सहयुद्धवा, राजयुवा / " स्थादिभ्यः०" 5 / 3 / 82 इति के आयुध्यन्ते अनेन आयुधम् / " शाम्युधि० " 5 / 3 / 141 इति खलपवादे अने दुर्योधनः, सुयोधन: / आधारेऽनटि आयोधनम् // 118 अनो रुधिच कामे' / काम इच्छा / अनुपूर्वो रुधिः कामे दिवादिः / अनुरुध्यते / अनुरुरुधे / अनुस्वारेवान्नेट् , अनुरोद्धा, अनुरुद्धः / " समनुव्य० " 5 / 2 / 63 इति घिनणि अनुरोधशीलः अनुरोधी / कामादन्यत्र रुधादित्वात् " रुधां०" 3 / 4 / 82 इति ने अनुरुद्धे, अनुरुणद्धि / णौ रोधयति // 1. तुलना, महाभाष्य 8 / 2 / 58, काशिका 8 2 / 56 //