________________ 228 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 113 अथ तान्तः सेट् च // '113 वृतूचि वरणे' / वृत्यते / ववृते / वर्तिता / उदित्वात् विस्व वेट , वृत्वा, वर्तित्वा / वेट्वात् क्तयोर्नेट्, वृत्तः, वृत्तवान् / वृतूङ् वर्तने [11955], इति अस्यैव वरणे दिवादित्वं विधीयते, तेन वरणे धुतादित्वाद् " युद्भ्योऽद्यतन्याम्०" 3 / 3 / 44 " वृद्भ्यः स्यसनोः" 3 / 3 / 45 इति वा आत्मनेपदं नास्ति, अवतिष्ट, वर्तिष्यते, अवतिष्यत, विवर्तिषते / वरणादन्यत्र तु अवृतत् , वर्त्यति, अवय॑त् , इत्यपि भवति / अन्ये तु वा वृतूचि वरणे इत्यधीयते वरणे दिवादित्वं वा प्रतिपन्नाः, तन्मते वरणेऽपि पक्षे शवि वर्तते, " धुझ्यो." 3 / 3 / 44 इति अद्यतन्यां वाऽऽत्मनेपदे अवतिष्ट, पक्षे " शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदे धुताद्यङि अवृतत् , “वृद्भ्यः स्यसनोः" 33 / 45 इति वा आत्मनेपदे वतिष्यते, "शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदे "न वृद्भ्यः " 4 / 4 / 55 इति इडभावे वय॑ति, सनि विवतिषते; पक्षे " प्राग्वत् " 3 / 3 / 74 इति परस्मैपदे विवृत्सति / केचित्तु वा शब्दादिरनेकस्वरोऽयं धातुरित्याहुः, वावृत्यते / 'ततो वावृत्यमाना सा' [ भट्टीकाव्य, 4 / 28 ] // ___ अथदान्तास्त्रयोऽनिटश्च // '114 पदिंच गतौ' / गतिः यानं ज्ञानं च / पद्यते / " नेमादा." 21379 इति नेणत्वे प्रणिपद्यते / प्रपेदे / “बिच ते पदस्तलुक च" 3 / 466 उदपादि भैक्षम् / अनुस्वारेच्चान्नेट , पत्ता, संपन्नः / याङ “वश्वास" 4 / 1 / 50 इति पूर्वस्य नीः, आपनीपद्यते / सनि " रमलभ०". 4 / 1 / 21 इति स्वरस्य इति द्वित्वोभावे च प्रपित्सते / “लषपत०" 5 / 2 / 41 इति उकणि उपपादशीलः उपपादुकः / “भूषाक्रोधा० " 5 / 2 / 42 इति अने पदनो धर्मस्य / " पदरुज०" 5 / 3 / 16 इति कर्तरि घनि पादः / “समज०" 5 / 3 / 99 इति क्यपि निपद्या / " वर्षादयः क्लीवे" 5 / 3 / 29 इति अलि पदम् / “क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि संपद् , प्रतिपद् / " विशपतपद०" 5 / 4 / 81 इति गमि गेहानुप्रपादमास्ते, गेहं गेहम् अनुप्रपादम् / जातेः संपदा च" 7 / 2 / 131 इति स्साति सर्व शास्त्रमग्निसात् संपद्यते / उणादौ " अर्तीरी० " ( उ० 338) इति मे पनम् / " भिवृधि.." ( उ० 387) इति रे पद्रः ग्रामः / “छविछिवि०" ( उ० 706 ) इति वौ निपातनात् पदविः; ङयां पदवी मार्गः / “प्लुज्ञा०"