________________ 112 ] धातुपारायणे दिवादयः (3) [227 __अथ जान्तावनिटौ च // '111 युजिच समाधौ' / समाधिः चित्तवृत्तिनिरोधः / युज्यते / युयुजे / अनुस्वारेवान्नेट् , योक्ता, योक्तुम् / " कुप्यभिद्य० " 5 / 1 / 39 इति क्यपि निपातनाद् युज्यते अनेनेति युग्यं वाहनम् / घ्यणि योग्यमन्यद् / कर्मणोऽणि न्यवादि' इति गत्वे गोयोगः / ध्यणि “नि-प्राद् युज:० " 4 / 1 / 116 इति गत्वाभावे नियोक्तुं शक्यं नियोज्यम् , प्रयोज्यम् / " नाम्युपान्त्य० " 5 / 1 / 54 इति के, “न्य द्ग०" 4 / 1 / 112 इति गत्वे युगम् , संयुगम् / विपि "युज्रो० " .1 / 4 / 71 इत्यत्र युनक्तग्रहणात् नान्ताभावे युक्, युजौ, युजः, अश्वयुक् / अस्याऽपि नोऽन्त इत्यन्ये, युङ, युझौ, युञ्जः / “गत्यर्थाऽकर्मक०" 5 / 1 / 11 इति कर्तरि क्ते, " कुशलायुक्ते०" 2 / 2 / 97 इति वा सप्तम्याम् आयुक्तो देवार्चायां देवार्चाया वा / " युजभुज० " 5 / 2 / 50 इति घिनणि योगशीलः योगी / " नीदाब०" 5 / 2 / 88 इति करणे त्रटि योक्त्रम् / घनि योगः / आधारेऽनटि योजनम् / णौ “णिवेच्या०" 5 / 3 / 111 इति अने योजना / "कुत्संपदा० " 5 / 3 / 114 इति क्विपि युजमापना मुनयः / उणादौ "युयुजि." (उ० 277) इति किति आने युजानः सारथिः / " तिजियुजेगं च " (उ० 345) इति किति मे युग्मम् / युनूंपी योगे [14] युङ्क्ते, युनक्ति / युजण, संपर्चने [ 9 / 373 ], “युजादे० " 4 / 3 / 18 इति वा णिचि योजयति, योजति // '112 सृजिच् विसर्गे' / " इङित: " 3 / 3 / 22 इत्यात्मनेपदे सृज्यते मालां चैत्रः / कर्मकर्तरि “एकधातौ०" 3 / 4 / 86 इति क्ये सृज्यते माला स्वयमेव / ससृजे / अनुस्वारेच्चान्नेट् , “अ सृजिदृशो०" 4 / 4 / 111 इति अति स्रष्टा, सृष्टः, सृष्टवान् / "पाणिसमवाभ्याम्" 5 / 1 / 18 इति क्यवषवादे ध्यणि पाणिसग्या, समवसर्या रज्जुः / " संवेः " 5 / 2 / 57 इति घिनणि संसर्गशील: संसर्गी, विसर्गी / घजि निसर्गः / “क्रुत्संपदा०" 5 / 3 / 114 इति कर्मणि क्विपि “ऋत्विजदिश" 21169 इति निर्देशाद् ऋतो रत्वे सक् / " श्वादिभ्यः" 5 / 392 इति क्तौ सृष्टिः / उणादौ "स्यन्दिसृजिभ्यां सिन्धरजौ च" (उ० 717 ) इति उः, रज्जुः / सृजत् विसर्गे [ 5 / 35], सृजति // 1. "न्यकृद्गमेघादयः" 4 / 1 / 112 इति सूत्रेण //