________________ 226 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 106 डीनवान् / अयमपि विहायसां गतौ इत्यन्ये / डीङ् विहायसां गतौ [ 11588 ], डयते / क्तयोरिटि " न डीङ्" 4 / 3 / 27 इति कित्त्वाभावाद् गुणे डयितः, डयितवान् / भ्वादेरिवेह श्यार्थ सूयत्यादित्वार्थ च पाठः इत्येके, तन्मते डयतेरपि डीन:, डीनवान् / / ___ 107 वीच् वरणे' / बीयते / " योऽनेकस्वरस्य" 211156 इति यापवादे "संयोगात्" 20152 इति इयि विद्रिये / अनुस्वारेचान्नेट, वेता / " मयत्यादि० " 4 / 2 / 70 इति क्तयोस्तस्य नत्वे वीणः, वीणवान् / वीं वरणे [ 853], वीणाति // वृत् स्वादिः / सूयत्यादिः दिवाद्यन्तर्गणो नवकः वर्तितः, संपूर्ण, इत्यर्थः // . अथेदन्तास्त्रयोऽनिटश्च // 108 पींच् पाने' / चैत्रो जलं पीयते, पिप्ये / अनुस्वारेच्चान्नेट, पेता, पीतः / आपीयन्त / उणादौ " पीपूडो हस्वश्च" ( उ० 125) इति छ पिछम् / "गुलुञ्छपिलिपिञ्छ० " ( उ० 126 ) इति छ निपातनात् पिञ्छम् / “पीविशि०" (उ० 163 ) इति किति ठे पीठम् / " पीङः कित् " ( उ० 821 ) इति लौ पीलुः गजवृक्षौ // ____मांच माने इत्यपि कश्चिदधीते, मायते, मितम् / क्ये " ईय॑अने." 4 / 3 / 97 इति ईत्वे मीयते / " नेङ्मादा० " 2 / 379 इति नेणत्वे प्रणिमायते, शिवादत्र न ईत्वम् / माङ् माने [ 2015 ], माति / माक् मानशब्दयोः [2179 ], मिमीते // ___ 109 ईच् गतौ' / ईयते, प्रतीयते / “गुरुनाम्यादे०" 3 / 4 / 48 इति परोक्षाया आमि आयांचक्रे / व्यपदेशिवद्भावेन गुरुनाम्यादित्वमामं नेच्छन्त्येके, तन्मते आमभावे ईये, ईयाते, ईयिरे / अनुस्वारेवान्नेट् , एता, एतुम् / " य एचा०" 5 / 1 / 28 इति ये उपेयम् / अलि प्रत्ययः // ___ 110 प्रींच् प्रीतौ' / प्रीयते / " संयोगात् " 20152 इति इयि पिप्रिये / अनुस्वारेच्चान्नेट् , प्रेता, प्रीतः / णौ " नामिनो० " 4 / 3 / 51 इति वृद्धौ प्राययति / " नाम्युपान्त्य०" 5 / 1 / 54 इति के प्रियः / प्रींग तृप्तिकान्त्योः [8 / 3], प्रीणीते, प्रीणाति / प्रीगण तर्पणे [ 9 / 378 ], "युजादे०" 3 / 4 / 18 इति वा णिचि, " धूगग्रीगो०" 4 / 2 / 18 इति नेऽन्ते प्रीणयति; पक्षे प्रयते, प्रयति /