________________ 242 ] आचार्यश्रीहेमचन्द्रविरचिते [. " वा ज्वलादि०" 5 / 1162 इति वा णे दावः, पक्षे अचि दवः / ट्विवादथौ दवथुः / दुं गतौ [ 112 ], दवति // अथ ऋदन्तावनिटौ च // '13 पृट् प्रीतो' / पृणोति, पपार / थवि "ऋतः " 4479 इति नेट , पपर्थ / अनुस्वारेन्वान्नेट , पर्ता, पृतः / सनि पुपूर्षति / पंक पालनपूरणयोः [2276], पिपति // 14 'स्मृट् पालने च' / चकारात् प्रीतौ / जीवनेऽप्यन्ये / स्मृणोति, सस्मार / अनुस्वारेच्चान्नेट् , स्मर्ता, स्मर्तुम् / थवि " ऋत:" 4 / 4 / 79 इति नेट् , सस्मर्थ / पोपान्त्योऽयमित्येके; स्पृणोति, पस्पार, स्पर्ता // अथ कान्तौ // 15 शक्लंट शक्तौ' / शक्नोति, शशाक, शेकुः / लुदियाद डि अशकत् / ये तु शक्यते: पुष्यादित्वं प्रतिपन्नाः तेषां पुष्यादित्वादेव अङि सिद्धे लदिचमात्मनेपदेऽपि अङर्थम्, तेन "क्रियाव्यतिहारे०" 3 / 3 / 23 इत्यात्मनेपदे अङि व्यत्यशकत् / अनुस्वारेच्चान्नेट, शक्ष्यति, शक्तः चैत्रः। " शकः कर्मणि" 4 / 4 / 73 इति वा नेट् , शक्तः शकितो वा धर्मः कतु चैत्रण / सनि " रभलम० " 4 / 1 / 21 इति स्वरस्य इ: द्वित्वाभावश्च शिक्षति / "शको जिज्ञासायाम् " 3 / 3 / 73 इति आत्मनेपदे विद्याः शिक्षते / " शकितकि० " 5 / 1 / 29 इति ये शक्यः / " शकधृष० " 5 / 4 / 90 इति तुमि शक्नोति भोक्तुम् / शकींच मषणे [3 / 137 ], शक्यते शक्यति // 16 तिक, 17 तिग, 18 पघट हिंसायाम् ' / आद्यौ आस्कन्दनेऽपि इत्येके / तिक्नोति, तितेक, तेकिता / " नाम्युपान्त्य०" 5 / 1154 इति के तिकः / / ___ अथ गान्तः सेट् च // '17 तिग' / तिग्नोति, तितेग, तेगिता / " नाम्युपान्त्य०" 5 / 1154 इति के तिगः // ____ अथ घान्तः सेट् च // '18 पघटू' / " षः सो." 2 / 3 / 98 इति से सध्नोति, ससाध / षोपदेशत्वाद् "णिस्तोरेवा० " 2 / 3 / 37 इति षत्वे सिपाघयिषति / अषोपदेशोऽय 1. स्मृ प्रीतिबलनयोः, बलनं जीवनम् (क्षी. त. 128 ) //