________________ 224 ] आचार्य श्रीहेमचन्द्रविरचिते [ धा० ९८वृत् पुषादिः / पुषादिः दिवाद्यन्तर्गणो वर्तितः संपूर्ण इत्यर्थः // अथाऽऽत्मनेपदिषु सूयत्यादिर्नवकः क्तयोस्तस्य नत्वार्थ प्रदर्श्यते / तत्र लाघवार्थमादौ ऊदन्तौ सेटौ च // 99 पृङौच प्राणिप्रसवे' / “पः सो०" 2 / 3 / 98 इति सत्वे "इङित." 3 / 3 / 22 इत्यात्मनेपदे सूयते / पोपदेशत्वाद् , “नाम्यन्तस्था०" 2 / 3 / 15 इति पत्वे सुषुवे / औदित्वाद् वेट् , सोता, सविता / किति " उवर्णात् " 4 / 4 / 58 इति नेट् , सूत्वा / " सूयत्याद्यो० " 4 / 2 / 70 इति क्तयोस्तस्य नत्वे सून:, सूनवान् ; प्रसूनम्-कुसुमम् / अत एवाऽयं प्राणिप्रसवे इत्यन्ये / सनि “ग्रहगुहश्च०" 4 / 4 / 59 इति नेट् , “णिस्तोरेवा०" 2 / 3 / 37 इति नियमात् षत्वाभावे सुम्पते / “युवर्ण०" 5 / 3 / 28 इति अलि प्रसवः / पूडौक प्राणिगर्भविमोचने [2 / 49 ], सूते / पुत् प्रेरणे [5 / 18], सुवति // ____ 100 दूच् परितापे ' / परितापः खेदः / दूयते / दुदुवे / दविता / किति " उवर्णात् " 4 / 4 / 58 इति नेट् , दूत्वा / " सूयत्याद्यो०" 4 / 2170 इति क्तयोस्तस्य नत्वे दूनः, दूनवान् / उणादौ " शीरी० " ( उ० 201) इति किति ते दूतः // अथेदन्ताः सप्त डीङोऽन्येऽनिटश्च // - 101 दींच् क्षये' / दीयते / " दीय दीङः किङति स्वरे" 4 / 3 / 93 उपदिदीये, उपदिदीयाते / दीङः सनि०" 4 / 2 / 6 इति वा आत्वे दिदासते, दिदीसते / “नामिनोऽनिट् " 4 / 3 / 33 इति सन: कित्त्वादत्र न गुणः / " यबङिति" 4 / 27 इति आत्वे उपदाय / दारूपस्य बहिरङगत्वाद् दासंज्ञाया अभावे "इश्च स्थादः" 4 / 3 / 41 इति न इत्वम् , उपादास्त, दाता / अकिङद्विषये एव आत्वे " तन्व्यधी०" 5 / 1 / 64 इति णे दायः / घञि उपदायः / " सूयत्याद्यो०" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे दीनः, दीनवान् , अनुस्वारेच्चादत्र नेट् / उणादौ " जीणशीदी०" ( उ० 261 ) इति किति ने दीनः / / . 192 धीच अनादरे' / धीयते / दिध्ये / अनुस्वारेच्चान्नेट , घेता, धेतुम् / “सूयत्याद्यो०" 4 / 270 इति क्तयोस्तस्य नत्वे धीनः, धीनवान् / आधारार्थोऽयमित्यन्ये / “शेषो भुवं धीयते " [ ] // ..