SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 98 ] धातुपारायणे दिवादयः (3) [ 223 " परेर्देबि० " 5 / 2 / 65 इति घिनणि परिमोहशील:, परिमोही / घञि मोहः / उणादौ " पूमुहोः पुन्मूरौ च" ( उ० 86) इति खे मूर्खः / “महेः कित्" ( उ० 700 ) इति उरौ मुहुरिः गौः / " मुहिमिथ्यादेः कित् " (उ० 1000) इति उसि मुहुः कालावृत्तिः // 96 हौच जिघांसायाम् ' / " क्रुद्हे० " 2 / 2 / 27 इति संप्रदानत्वे मैत्राय द्रुह्यति / दुद्रोह / पुष्याद्य कि अगृहत् / औदित्वाद् वेट् , “मुह द्रुह०" 2 / 1 / 81 इति वा हस्य घत्वे द्रोग्धा, द्रोढा, द्रोहिता / विपि मित्रध्रुक, मित्रध्रुट् / वेट्त्वात् क्तयोनेंट , द्रुग्धः, द्रुहः / " युजभुज० " 5 / 2 / 50 इति घिनणि द्रोदशीलः, द्रोही / घञि द्रोहः / उणादौ " ऋद्रुहेः कित्" (उ० 195) इति इणे द्रुहिणः ब्रह्मा // 97 ष्णुहौच उगिरणे' / "पसो०" 2 // 398 इति सत्वे स्नुह्यति / पोपदेशत्वात् " नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे सुष्णोह, सुष्णोहयिषति / पुण्याद्यङि अस्नुहत् / औदित्वाद् वेद , " मुहद्रुह०" 21184 इति हस्य वा घत्वे स्नोग्धा, स्नोढा, स्नोहिता / वेट्त्वात् क्तयोर्नेट् , स्नूग्धः, स्नूढः, स्नुग्धवान् , स्नूढवान् उणादौ " नाम्युपान्त्य गृ०" (उ० 609) इति किद् इ., स्नुहिः महावृक्षः // .98 णिहौच प्रीतौ' / “पः सो." 2 / 3 / 98 इति सत्वे स्निह्यति / पोपदेशत्वात् “नाम्यन्तस्था०" 2 / 3 / 15 इति षत्वे सिष्णेह / पुष्याद्यङि अस्निहत् / औदित्वाद् वेट् , " मुहद्ह०" 221184 इति हस्य वा घन्वे स्नेग्धा, स्नेढा, स्नेहिता / वेट्त्वात् क्तयोर्नेट् , स्निग्धः, स्नीढः, स्निग्धवान् , स्नीढवान् / क्विपि स्निक, स्निट् / “ऋत्विज०" 221169 इति हस्य गत्वे, सूत्रनिर्देशादेव उदः दलुकि सस्य पत्वे च उष्णिक / “अजादेः०" 2 / 4 / 16 इति आपि उष्णिहा / घञि स्नेहः / ष्णिहण स्नेहने [9 / 148 ], स्नेहयति // केचित्तु शमू-दमू-तमू-श्रमू-भ्रमू-क्षमौ-मदै-अमू-यमू-जमूदस-वम-प्युप-प्युस-पुस-प्लु-विस-कुस-कुश-दुस-मुस-मसे-लुठ-उच-भृशू-भ्रंशूवृश-कृश-जितष-हृष-रुष-डिप-ष्ट्रप-कुप-गुप-युप-रुप-लुप-लुभ-णम-तुभ-क्लिदौ जिमिदा-जिश्विदा-ऋधू-गृधूनां पुष्यादित्वं नेच्छन्ति, तन्मते पुष्याधङभावे सिचि अशमीत् , अदमीत् , अश्रमीत् , अयसीत् , अलोटित् , अप्लोषीत् , अकोपीत् , अलोपीत् , अहर्षीत् इत्यादि //
SR No.004315
Book TitleDhatuparayanam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherShahibag Girdharnagar Jain S M Sangh
Publication Year1979
Total Pages532
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy