________________ 222 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 93 अथ दान्तः // '93 मदैच् हर्षे ' / माद्यति / ममाद / पुष्याद्यङि अमदत् / मदिता / ऐदित्वात् क्तयोर्नेट् , “रदाद०" 4 / 2 / 69 इत्यत्र मदेवर्जनाद् नत्वाभावे मत्तः, मत्तवान् / णौ हर्षग्लपनयोः घटादित्वात् हस्वे मदयति / अन्यत्र प्रमादयति, उन्मादयति / अनुपसर्गात् " यममद०" 5 / 1 / 30 इति ये मद्यम् / सोपसर्गाद् ध्यणि प्रमाद्यम् / नन्धाधने मदयति इति मदनः / " इरम्मदः" 5 / 1 / 127 इति खशि निपादनाद् इरया मायति इरम्मदः मेघज्योतिः / " उदः पचि०" 5 / 2 / 29 इति इष्णौ उन्मादशीलः उन्मदिष्णुः / “शमष्टकाद्" 5 / 2 / 49 इति घिनणि मदशीलः मादी, उन्मादी / " व्यधजप०" 5 / 3 / 47 इति अलि मदः / सोपसर्गात्त पनि प्रमादः / संमदप्रमादौ हर्षे, संमदः कन्यानाम् , प्रमदः कोकिलानाम् / उणादौ " तुदिमदि०" ( उ० 124 ) इति छे मच्छ: मत्स्यः / " मदे: स्यः" (उ० 383 ) मत्स्यः / गौरादित्वाद् ड्याम् " मत्सस्य यः" 2 / 4 / 87 इति यलुकि मत्सी / " मदिमन्दि०" ( उ० 412) इति इरे मदिरा / "मीज्यजि." (उ० 439) इति सरे मत्सरः / मदिणू तृप्तियोगे [ 9 / 241 ], मादयते // ___94 क्लमूच् ग्लानौ' / " भ्रासम्लास०" 3 / 4 / 73 इति वा श्ये, " ष्ठिवू-क्लम्वा०" 4 / 2 / 110 इति दीर्घ क्लाम्यति, पक्षे शवि क्लामति / चक्लाम / पुष्याघडि अक्लमत् / क्लमिता / ऊदित्वात् 'कित्व वेट् , क्लान्त्वा, क्लमित्वा / वेट्त्वात् क्तयोर्नेट क्लान्तः, क्लान्तवान् / " शमष्टकाद्" 5 / 2 / 49 इति घिनणि क्लमी / घजि क्लमः // अवसितं शमादीनां सप्तकमष्टकं च // अथ प्रकृतवर्णक्रमेण हान्ताश्चत्वारः सेटश्च // ___95 मुहौच वैचित्ये' / वैचित्यम् अविवेकः / मुह्यति / मुमोह / पुष्याद्यङि अमुहत् / औदित्वाद् वेटू , धुट्प्रत्यये पदान्ते च " मुद्रुहः२१८४ इति वा हस्य धत्वे मोग्धा, मोढा, पक्षे मोहिता / उन्मुक्, उन्मुट / वेट्त्वात् तयोर्नेट् , मुग्धः, मूढः, मुग्धवान् , मूढवान् / णौ फलवकर्तरि “ईगितः " 3 / 3 / 95 इत्यान्मनेपदे, “अणिगि प्राणिकर्तक० " 3 / 3 / 107 इति परस्मैपदेनापोदिते, “परिमुहायमा० " 3394 इति पुनर्विहिते परिमोहयते शत्रुम् / 1. मु० नास्ति //