________________ 92 ] धातुपारायणे दिवादय: (3) [ 221 ते दन्तः / “दमेरुनमनसौ " ( उ० 987 ) दमुनाः, दमूनाः च वह्निः / "यमिदमिभ्यां डोस्" (उ० 1005) दोः बाहुः // '.89 तमच काङ्क्षायाम्' / ताम्यति / तताम / पुष्याद्यङि अतमत् / तमिता / ऊदिचात् कित्व वेट् , तान्त्वा, तमित्वा / वेट्त्वात् क्तयोर्नेट् , तान्तः, नितान्तः, तान्तवान् / “शमष्टकात्" 5 / 2 / 49 घिनणि, "मोऽकमि०" 4 / 3 / 55 इति वृद्धयभावे तमी / घनि तमः / गौरादित्वाद् इयां तमी रात्रिः / उणादौ " चिजिशु०" (उ० 392) इति किति रे दीर्घ च ताम्रम् / " तप्यणि." ( उ० 569) इति असे तमसा नदी / “क्रमि-तमि०" (उ० 613) इति औ उपान्त्येत्त्वे च तिमिः / “अस" (उ० 952) इत्यसि तमः॥ 90 श्रमच खेदतमसोः' / श्राम्यति / शश्राम / पुष्याद्यङि अश्रमत् / श्रमिता / ऊदिचात् कित्व वेट् , श्रान्त्वा, श्रमित्वा / वेटत्वात् क्तयोर्नेट् , श्रान्तः, श्रान्तवान् / “शकितकि०" 5 / 1 / 29 इति ये श्रम्यम् / नन्द्याधने श्रमणः / स्त्रियामापि श्रमणा / पनि “विश्रमे 4356 इति वा वृद्धयभावे विश्रमः, विश्रामः / " शमष्टकाद्०" 5 / 2 / 49 इति घिनणि श्रमी // 91 भ्रमूच अनवस्थाने' / अनवस्थानं देशान्तरगमनम् / " भ्रासम्लास० " 3 / 4 / 73 इति वा श्ये भ्राम्यति / पक्ष शवि भ्रमति / बभ्राम / पुष्याद्यङि अभ्रमत् / भ्रमिता / ऊदिचात् कित्व वेट् , भ्रान्त्वा, भ्रमित्वा / वेट्त्वात् क्तयोनेट , भ्रान्तः, भ्रान्तवान् / " शमष्टकाद्" 5 / 2 / 49 इति घिनणि भ्रमी / घनि " मोऽकमि० " 4 / 3 / 55 इति वृद्धयभावे भ्रमः / गौरादित्वाद् ङयाम् भ्रमी / उणादौ " तृभ्रम्यद्या." ( उ० 611) इति औ . भृमादेशे च भूमिः वायुः, बाहुलकाद् भृमाऽभावे भ्रमिः, भ्रमः / " भ्रमिगमि० " ( उ० 843 ) इति डिद् ऊः, भ्रः / भ्रम् चलने [ 11970 ], भ्रमति / “भ्रासम्लास०" 3 / 4 / 73 इति वा श्ये भ्राम्यति // 92 क्षमौच सहने ' / क्षाम्यति / चक्षाम / पुष्याद्यङि अक्षमत् / औदिचात् वेट , क्षन्ता, क्षमिता / वेट्त्वात् क्तयोनेंट् , क्षान्तः, क्षान्तवान् / "शमष्टकाद्" 5 / 2 / 49 घिनणि क्षमी / घनि " मोऽकमि०" 4 / 3 / 55 इति वृद्धयभावे क्षम: / क्तौ शान्तिः / ऊदिदयमित्येके, क्षान्त्वा, क्षमित्वा / क्षमौषि सहने [ 11788 ], क्षमते, अक्षमिष्ट, पिवादङि क्षमा /