________________ 220] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 87 __87 शम् , 88 दमून् उपशमे' / " शम्सप्तकस्य० " 4 / 2 / 111 इति श्ये दीर्घे शाम्यति / “नेमादा०" 2379 इति नेर्णत्वे प्रणिशाम्यति / शशाम, शेमतुः / पुष्याघडि अशमन् / णौ " शमोऽदर्शने० " 4 / 2 / 28 इति हस्बे शमयति रोगम् / दर्शने तु निशामयति रूपम् / शमिता, शामतुम् / अदित्वात् कित्व वेट , शान्त्वा, शमित्वा / वेट्त्वात् क्तयोर्नेट, शान्तः, शान्तवान् / णौ ते " णौ दान्तशान्त." इति वा निपातनात् शान्तः / पक्षे " सेटूक्तयोः" 4 / 3 / 84 इति गेलुंकि शमितः / " शकितकि०" 5 / 1 / 29 इति ये शम्यम् / विपि "अहन्पश्चम०" 4 / 1 / 107 इति दीर्घे " मो नो०" 2 // 167 इति मस्य नत्वे तस्य च परेऽसत्वात् , " नाम्नो नो०" 2 // 1191 इति लुगभावे " नो प्रशानो०" 1138 इत्यत्र प्रशानो वर्जनात् , अनुस्वाराऽनुनासिकपूर्वस्य शस्याऽभावे. "तवर्गस्य." 1 / 3 / 60 इति नस्य अत्वे प्रशाञ् चरति / " शमष्टकात् घिनण" 5 / 249 " मोऽकमि०" 4 / 3 / 55 इति वृद्ध्यभावे शमशील: शमी / घनि शमः / गौरादित्वात् ड्याम् शमी / क्तौ शान्तिः / उणादौ “शमिमनिभ्यां खः" (उ० 84 ) शङ्खः / “कमितमि० " ( उ० 107 ) इति डिति उङ्गे शुङ्गाः कदल्यः / " पञ्चमात् डा" (उ० 168) शण्डः उत्सृष्टः पशुः / “शमिषणिभ्यां ढः" ( उ० 179) शण्डः क्लीवम् / “कैशीशमि० " ( उ० 749.) इति को शङ्कुः / शकृत् इति तु " 'शक ऋत् " ( उ० 891 ) इति शके: ऋति / / '88 दमूच् ' / दाम्यति / ददाम / पुष्याघडि अदमत् / दमिता / अदित्वात् कित्व वेट , दान्त्वा, दमित्वा / वेटत्वात् क्तयोर्नेट , दान्तः, दान्तवान् / णौ " अमोकम्यमि०" 4 / 2 / 26 इति इस्वे फलवकर्तरि " ईगितः " 3 / 395 इति आत्मनेपदे, “अणिगि प्राणि० " 33 / 107 इति परस्मैपदेनापोदिते, “परिमुहायमा० " 3394 इति पुनर्विहिते “गतिबोधा०" 2215 इति अणिकर्तुः कर्मत्वे च दाम्यति अश्वः, दमयते अश्व चैत्रः / " अकखाद्य० // 2 // 338. इति वा नेणत्वे प्रणिदमयते, प्रनिदमयते / " शकितकि०" 5 / 11129 इति ये दम्यः / नन्द्याधने कुलदमन: / "भृवृजि० " 5111112 इति खे अरिन्दमः / “णौ दान्तशान्त." 4474 इति क्ते वा निपातनाद् , दान्तः, दमितः / " शमष्टकाद्" 5 / 2 / 49 इति घिनणि दमशीलः दमी। घनि दमः / उणादौ " पञ्चमात् डः" ( उ० 168) दण्डः / " दम्यमि० " ( उ० 200 ) इति 1. "शकेर्ऋत्" इत्युणादिसूत्रम् / /