________________ 86 ] धातुपारायणे दिषादयः (3) [ 219 ( उ० 200) इति ते वितस्ता-नदी / " प्लुज्ञा०" ( उ० 646) इति तौ वितस्तिः // '82 दसूच' / दस्यति / ददास / पुष्याद्यङि अदसत् / दसिता / ऊदित्वात् कित्व वेट् , दस्त्वा, दसित्वा / वेट्त्वात् क्तयोर्नेट् , दस्तः, दम्तवान् / ण्यन्तस्य क्ते " णौ दान्तशान्त०" 4474 इति वा निपातनात् , दस्तः, दासितः / उणादौ " भीवृधि०" ( उ० 387 ) इति रे दस्रौ-देववैद्यौ / " युजि शुन्धि०" (उ० 801) इति युः, दस्युः, चौरः // '83 वसूच स्तम्भे' / वस्यति / ववास / पुष्याद्यङि अवसत् / वसिता / ऊदित्वात् कित्व वेट् , वस्त्वा, वसित्वा / वेटत्वात् क्तयोनेंट् , वस्तः, वस्तवान् / उणादौ " दम्यमि०." ( उ० 200 ) इति ते वस्तः छागः / " प्लुज्ञा० " ( उ० 646) इति तौ वस्तिः मेढोर्ध्वम् / वसं निवासे [11999 ], वसति, वस्ता / वसिक् आच्छादने [2.59 ], वस्ते / वसण स्नेहच्छेदावहरणेषु [9 / 194 ], वासयति // '84 वुसच् उत्सर्गे' / उत्सर्गः त्यागः / वुस्यति / वुवोस / पुष्याद्यङि अवुसत् / वोसिता, वुसितः / " नाम्युपान्त्य० " 5 / 1 / 54 इति के वुसम् // '85 मुसच खण्डने ' / मुस्यति / मुमोस / पुष्याद्यङि अमुसत् / मोसिता, मुसितः / उणादौ " शीरी० " ( उ० 201) इति किति ते 'मुस्ता / " तृपिवयि०" ( उ० 468 ) इति किति अले मुसलम् / षान्तोऽयम् इत्यन्ये // __ 86 मसैच् परिणामे' / परिणामः विकारः / परिमाणे इत्यन्ये / मस्यति / ममास / पुष्याद्यङि अमसत् / मसित्वा / ऐदित्वात् क्तयोनेंट , मस्तः, मस्तवान् / धजि मासः / मास् इति प्रकृत्यन्तरं चन्द्राभिधायी / पूर्णमासा युक्ता साऽस्य पौर्णमासीति निर्देशात् अणि पौर्णमासी / उणादौ " दम्यमि० " (उ० 200) इति ते मस्तः / स्वार्थ के मस्तकः / “पदिपठि० " ( उ० 607) इति इ., मसिः शस्त्री / " कृसिकमि० " ( उ० 773 ) इति तुनि मस्तु दधिमण्डः // अथ शमादीनां सेटां सप्तकं श्ये दीर्घायं मदैच् पर्यन्तं, क्लमपर्यन्तं चाष्टकं धिनणथं प्रदर्श्यते / तत्र च बहुत्वान्मान्ताः षडादौ / 1. मुस्यति खण्डयति रोगान् मुस्ता / एतस्या लोके मोथ इति प्रसिद्धिः। (निघण्टु शेष, 381, टी०)॥