________________ 218 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 78 वेट्त्वात् क्तयोर्नेट् , अस्त:, अस्तवान् / “ऋवर्ण" 5 / 1 / 17 इति ध्यणि आस्यम् / " कालेन तृष्य" 5 / 4 / 82 इति णमि, " तृतीयोक्तं वा" 3 / 1 / 50 इति वा समासे द्वयहात्यासम् , द्वथहमत्यासं गाः पाययति / " उणादौ " शिक्यास्या०" (उ० 364) इति ये निपातनात् आस्यम् / “वाश्यसि०" (उ० 423) इति उरे असुरः / “पदिपठि०" (उ० 607) इति इ., असिः / " वीसनि०" ( उ० 669 ) इति थिकि अस्थि / " मस्यसि०" (उ० 699 ) इति उरौ असुरिः रणः / “भृमृत" ( उ० 716) इति उः, असवः प्राणाः / " सोरसे: " ( उ० 853) इति ऋः, स्वसा // '79 यसूच प्रयत्ने' / प्रयस्यति, आयस्यति / संपूर्वस्य अनुपसर्गस्य च "भ्रास-भलास०" 36473 इति वा श्ये संयस्यति, यस्यति, पक्षे शवि संयसति, यसति / ययास / पुष्यायङि अयसत् / यसिता, यसितम् / उदित्वात् क्त्वि वेट् , यस्त्वा, यसित्वा / वेट्त्वात् क्तयोर्नेट् , आयस्त:, आयस्तवान् / गौ फलवकर्तरि " इङितः० " 3 / 3 / 22 इत्यात्मनेपदे " अणिगि प्राणिकर्तृक० " 3 / 3 / 107 इति परस्मैपदेनापोदिते "परिमुहायमायम०" 3394 इति पुनर्विहिते आयासयते शत्रु मैत्रः। "प्राच्च यम" 5 / 2 / 52 इति घिनणि प्रयासशीलः प्रयासी // '80 जसूच मोक्षणे ' / जस्यति / जजास / पुष्याद्यङि अजसत् / जसिता अदित्त्वात् क्त्वि वेट् , जस्त्वा, जसित्वा / वेट्त्वात् क्तयोर्नेट् , जस्तः, जस्तवान् / णो हिंसार्थत्वाभावात् " जास-नाट०" 2 / 2 / 14 इति कर्मणो वा. न कर्मत्वम् , तेन द्वितीया एव, चौरं बन्धनात् जासयति, मोचयति इत्यर्थः / हिंसार्थोऽपीत्येके, तन्मते वा कर्मत्वे शेषषष्ठयां चौरस्य उजासयति, चौरमुज्जासयति / “स्म्यजस" 5 / 2 / 79 इति रे अजासशीलं अजस्रं पचति / अजस्रः पाकः / धात्वर्थविशेषणत्वात् धात्वर्थकर्तक एवाऽयं प्रयोज्यः, तेन " अजस्रो घटः" इति प्रयोगो. ऽसाधुः / जसण हिंसायाम् [ 9 / 146 ], चौरस्य उजासयति // '81 तमू , 82 दसूच उपक्षये' / तस्यति / ततास / पुष्याद्यङि अतसत् / तसिता / उदित्वात् क्वि वेट् , तस्त्वा, तसित्वा / पेट्वात् क्तयोर्नेट , तस्तः, तस्तवान् / “तिकृतौ० " 5 / 1171 इति तिकि 'वितस्तिः / उणादौ "दम्यमि०" 1. लोके वहिथी [वेत ] इति. (लिं. दु. प.) //