________________ 78 ] धातुपारायणे दिवादयः (3) [ 217 '72 रुषच रोषे' / रुष्यति, रुरोष / पुष्यायडि अरुषत् / तादौ "सहलुभ०" 4 / 4 / 46 इति वेटि रोष्टा, रोषिता / क्तयोः " श्वसजप० " 4 / 4 / 75 इति वेटि रुष्टः, रुषितः / शील्यादित्वात् सत्यत्र क्तः, रुष्टवान् , रुषितवान् / “भूषाक्रोधा." 5 / 2 / 42 इति अने रोशणशीलः रोषण: / क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि रुट् / रुष हिंसायाम् [ 1514], रोषति / '73 प्युष 74 प्युस 75 पुसच विभागे' / प्युष्यति / पुप्योष / पुष्याद्यङि अप्युपत् / प्योपिता, प्युषितः / “वौ व्यअनादेः०" 4 / 3 / 25 इति क्त्वो वा कित्त्वे प्युषित्वा, .प्योषित्वा // . अथ सान्तास्त्रयोदश सेटश्च // '74 प्युम' / प्युस्यति / पुष्योस / पुष्पाद्यङि अप्युसत् / प्योसिता, प्युसितः / प्युसित्वा, प्योसित्वा // "75 पुपच् ' / पुस्यति, पुपोस / पुष्यायङि अपुसत् / पोसिता, पुसितः / पुसित्वा, पोसित्वा / उणादौ " शीरी०" ( उ० 201) इति किति ते पुस्तं लेप्यादिकर्म, स्वार्थे के पुस्तकम् // '76 विसच प्रेरणे' / विस्यति, विवेस / पुष्याद्यङि अविसत् / वेसिता / " नाम्युपान्त्य " 5 / 1 / 54 इति के विसम् / उणादौ " शीरी०" (उ० 201) इति किति ते विस्तं परिमाणम् // ": 77 कुसच् श्लेषे' / कुस्यति / चुकोस / पुष्याद्यङि अकुसत् / कोसिता, कुसितः / उणादौ "शिपिशि०" ( उ० 212) इति किति इते कुसितःऋषिः / तस्य भार्या "पूतक्रतु०" 2460 इति ङयाम् , ऐदन्तादेशे च कुसितायी / " उद्वटिकुल्यलि." ( उ० 351) इति कुमे कुसुमम् // ____ 78 असूच क्षेपणे' / अस्यति / " उपसर्गादस्य०" 33 / 25 इति वा आत्मनेपदे निरस्यति, निरस्यते / “अकखाद्य० // 2 // 380 इति वा नेर्णत्वे प्रण्यस्यते, प्रन्यस्यते, प्रण्यस्यति, प्रन्यस्यति / " अस्यादे०" 41168 इति पूर्वस्य आत्वे आस, आसतुः / पुष्याद्यङि “श्वयत्य०" 4 / 3 / 103 इति अस्थादेशे आस्थत् / आत्मनेपदे तु “शास्त्यमुवक्ति०" 3 / 4 / 60 इति अङि उदास्थत, उदास्थेताम् / असिता, असितुम् / ऊदित्वात् कित्व वेद , अस्त्वा, असित्वा / 2