________________ 216 ] आचार्यश्रीहेमचन्द्रविरचिते [धा०६७भावे श्लिष्टं मैत्रेण / साप्यादपि “श्लिषशी" 5 / 1 / 9 इति वा कर्तरि ते आश्लिष्टो मैत्रः कन्याम् , पक्षे कर्मणि ते आश्लिष्टा कन्या मैत्रेण / लिहाद्यचि श्लेषः / उणादौ "भ्रणतण" (उ० 186) इति णे निपातनात् लक्ष्णः / " मन्" (उ० 911) इति मनि श्लेष्मा / श्लिषु दाहे [ 11531 ], श्लेषति, 'अश्लेषीत् / श्लिषण श्लेषणे [9 / 137] श्लेषयति // ___ '68 प्लुङ्च् दाहे ' / प्लुष्यति / पुप्लोष / पुण्याद्यङि अप्लुषत् / प्लोषिता / ऊदित्वात् क्त्वि वेट् , प्लुष्ट्वा, “वौ व्यञ्जनादेः० " 4 / 3 / 25 इति सेटो वा कित्त्वे प्लुषित्वा, प्लोषित्वा, वेट्त्वात् क्तयोर्नेट् , प्लुष्टः, प्लुष्टवान् / अनूदिदयमित्येके / उणादौ " प्लुषेः प्लष् च " ( उ० 566 ) इति से प्लक्षः / प्लुष दाहे [11533], प्लोषति / पुष-प्लुषश् स्नेह-सेचन-पूरणेषु [8154, 55] प्लुष्णाति // '69 जितृषच पिपासायाम्' / तृष्यति / ततर्ष / पुष्याद्यङि अतृषत् / तर्षिता / जीवात् " ज्ञानेच्छा." 5 / 2 / 92 इति सति क्ते तृषितः, तृषितवान् / " ऋत्तष०" 4 / 3 / 24 इति सेटः क्त्वो वा कित्त्वे तुषित्वा, तषित्वा / " तृषिधृषि० " 5 / 2 / 80 इति नजिङि तर्षशीलः तृष्णक / घनि तषः / “क्रुत्संपदा." 5 / 3 / 114 इति क्विपि तृट् / भिदायङि तृषेत्येके / “कालेन०" 5 / 4 / 82 इति णमि " तृतीयोक्तं वा" 331150 इति वा समासे यहतर्षम् , द्वयहं तर्षे गाः पाययति / उणादौ “घृवीह्वा०" (उ० 183) इति किति णे तृष्णा, "मृगयेच्छा" 5 / 3 / 101 इति निपातनाद्वा // '70 तुष, 71 हृषच तुष्टौ' / तुष्टिः प्रीतिः / तुष्यति, तुतोष / पुष्याद्यङि अतुषत् , अनुस्वारेवान्नेट , तोष्टा, तुष्ट्वा / शील्यादित्वात् सति क्ते तुष्टः, तुष्टिः / " नाम्युपान्त्य० " 5 / 1 / 54 इति के तुषः / उणादौ "तुषिकुठिभ्यां० " (उ० 408) किति आरे तुषारः // '71 हृषच्' / दृष्यति / जहर्ष / पुष्यायङि अहृषत् / हर्षिता, हर्षितः, हृषितवान् / " हृषेः केश०" 4 / 4 / 76 इति वा नेटि हृष्टाः, हृषिताः केशाः, हृष्टानि, हृषितानि लोमानि, हृष्टः, हृषितः छात्रः, हृष्टाः, हृषिताः दन्ताः / ऊदिदयमिति 'नन्दी / अलीकार्थोऽयमित्येके / उणादौ " हृषिवृति०" ( उ० 485) इति उले हर्षुलः कामी / हृषू अलीके [ 11535 ], हर्षति / / 1. अश्लेषीत इति मु० // 2. विश्वनन्दी इति हैमप्रकाशे (पृ. 598) //