________________ 67 ] धातुपारायणे अदादयः (3)' '63 वृशच वरणे' / वृश्यति / वर्श / पुष्याद्यङि अवृशत् / वर्शिता / वृशितः / " नाम्युपान्त्य 0" 5 / 1 / 54 इति के वृशः / घजि वर्शः // 64 कुशच् तनुत्वे' / कृश्यति / चकर्श / पुष्यावङि अकृशत् / कर्शिता / " नाम्युपान्त्य०" 5 / 1 / 54 इति के कुशः / " अनुपसर्गाः क्षीब०" 4 / 2 / 80 इति क्तयोनिपातनात् कृशः, कुशवान् , परिकशः, परिकुशवान् / सोपसर्गस्य तु प्रकृशितः / “ऋत्तशमृष०" 4 / 3 / 24 इति सेटः क्त्वो वा कित्त्वे कृशित्वा, कर्शित्वा / उणादौ " कुशेरानुक्" ( उ० 794 ) कृशानुः // ___ अथ षान्ता नव // '65 शुपंच शोषणे' / शुष्यति, शुशोष / पुष्याद्यङि अशुषत् / अनुस्वारेवान्नेट् , शोष्टा / “वैशुषि०". 4 / 2 / 78 इति क्तयोस्तस्य कत्वे शुष्कः, शुष्कवान् / "ऊर्ध्वात् पू:०" 5 / 4 / 70 इति णमि ऊर्ध्वशोषं शुष्कः / उणादौ "विलिभिलि." ( उ० 340) इति किति मे शुष्मम्-बलम् / “शुपीषि०" ( उ० 416) इति : किति इरे शुषिरम् / " नाम्युपान्त्य" ( उ०.६०९) इति किद् इ., शुषि: छिद्रम् / “सात्मन्० " ( उ० 916 ) इति मनि निपातनात् शुष्मा 'बर्हिःशुष्मा // '66 दुषंच वैकृत्ये' / वैकृत्यं रूपभङ्गः / दुष्यति / दुदोष / पुष्याघडि अदुपत् / अनुस्वारेच्चान्नेट, दोष्टा, दुष्टः / णौ " ऊद् दुपो०" 4 / 2 / 40 इति उपान्त्यस्य अति दूषयति / " चित्ते वा" 4 / 2 / 41 चित्तं दूषयति, चित्तं दोषयति; प्रज्ञां क्षयति, प्रज्ञां दोषयति / नन्द्याधने दूषणः / उणादौ "क्रीकलि." ( उ० 38) इति इके दृषिका-नेत्रमलः / " स्यमिकषि०" (उ० 46) इति ईके दपीका स एव // 67 लिपंच आलिङ्गने ' / श्लिष्यति / शिश्लेष / “श्लिषः" 3 / 4 / 56 इति पुष्याद्यङपवादे सकि आश्लिक्षत् कन्यां चैत्रः / " क्रियाव्यतिहारे०॥ 3 / 3 / 23 इति आत्मनेपदे " हशिटो०" 3 / 4 / 55 इति सकि व्यत्यश्लिक्षत कन्याम् / असचाश्लेषे तु " नाऽसत्वा० " 3 / 4 / 57 इति सको निषेधात् पुष्याद्यङि समाश्लिषत् जतु च काष्ठं च, आश्लिषत् / आत्मनेपदे सिचि व्यत्यश्लिष्ट / अनुस्वारेचान्नेट , श्लेष्टा / " गत्यर्थाकर्मक०" 5 / 1 / 11 इति वा कर्तरि क्ते श्लिष्टो मैत्रः, पक्षे 1. शुक्रो वैश्वानरो बहिर्बहिः शुष्मा तनूनपात् इति शब्दार्णवाद् बर्हिः शुष्मा इति व्यस्तं समस्तं नाम इति कश्चित् / (अमर कोश, व्याख्यासुधाव्याख्या 131654) /