________________ 214 ] आचार्यश्रीहेमचन्द्रविरचिते [ पा० 59 अथ शान्ताः षट् सेटश्च // '59 नशौच अदर्शने' / अदर्शनम्-अनुपलब्धिः / नश्यति / "नशः शः" 2 / 3 / 78 इति नस्य णत्वे प्रणश्यति / ननाश, नेशतुः / पुष्याघङि " नशेर्नेश्वा'." 4 / 3 / 102 इति वा नेशाऽऽदेशे अनेशत् , अनशत् / औदित्वात् वेट् , " नशो धुटि" 4 / 4 / 109 इति ने नंष्टा, नशिता / " नशः शः" 2 / 3 / 78 इति षान्तस्य न णत्वम् , प्रनक्ष्यति / शान्तस्य णत्वे प्रणशिष्यति / " जनशो नि०" 4 / 3 / 23 इति वा किल्वे नष्ट्वा, नंष्ट्वा, नशित्वा / वेट्त्वात् क्तयोर्नेट् , नष्टः, नष्टवान् / णत्वाभावे प्रनष्टः / विपि " नशो वा" 221170 इति वा गत्वे नश्यति इति नक्, पक्षे " यजसृज० " 211187 इति षत्वे नट् / " क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि जीवनक् , जीवनट् / णौ फलवत्कर्तर्यपि "चल्याहारार्थ" 3 / 3 / 108 इति परस्मैपदे नाशयति / नन्द्याधने नाशयतीति नाशनः / “निन्दहिंस०" 5 / 2 / 68 इति णके विनशनशीलो विनाशकः / “सृजीण" 5 / 277 इति ट्वरपि नश्वरः, नश्वरी / “कर्तुर्जीव० " 5 / 4 / 69 इति णमि जीवनाशं नष्टः / उणादौ "जिभृमृ० " ( उ० 447) इति त्रटि वृद्धौ च नांष्ट्रा यातुधानाः // 60 कुशच श्लेषणे' / कुश्यति, चुकोश / पुष्याद्यङि अकुशत् / कोशिता। " नाम्युपान्त्य०" 5 / 1154 इति के कुश: / " भाजगोण." 264.30 इति ड्याम् कुशी आयसी चेत् / कुशा अन्या / घजि कोशः / गौरादित्वात् यां कोशी / उणादौ " तृपिवपि०" ( उ० 468) इति किति अले कुशलम् / " कुशिकमिभ्यां कुलकुमौ च" (उ० 503 ) इति मलकि कुल्मलम्-छेदनम् / / '61 भृशू 62 भ्रंशूच अधःपतने' / भृश्यति / बभर्श / पुष्यायङि अभृशत् / भर्शिता / अदित्वात् क्त्वि वेट् , भृष्ट्वा, "क्त्वा" 4 / 3 / 29 इति किवाभावे भर्शित्वा / वेट्त्वात् क्तयोर्नेट् , भृष्टः, भृष्टवान् / “नाम्युपान्त्य." 5 / 1 / 54 इति के भृशः // '62 भ्रंशूच' / भ्रश्यति / बभ्रंश / पुष्याधङि अभ्रशत् / भ्रशिता / अदित्वात् क्त्वि वेट् , भ्रष्ट्वा, भ्रंशित्वा / वेट्त्वात् क्तयोनेंट , भ्रष्टः, भ्रष्टवान् / " वञ्चत्रंस० " 4 / 1150 इत्यत्र ध्वंसिसहचरितस्य भ्वादेरेव भ्रंशेग्रहणात् न्यभावे यङि बाभ्रश्यते / भ्रशृङ अवलंसने [ 11952 ], भ्रंशते, अभ्रंशिष्ट, बनीभ्रश्यते / क्विपि "चुपसर्गस्य० " 3 / 2 / 86 इति बाहुलकाद् दीर्घ वहाभ्रट् // 1. श्चा० इति मु० //