________________ 58 ] धातुपारायणे दिवादयः (3) [ 213 '50 युप, 51 रुप, 52 लुपच विमोहने' / युप्यति, रुप्यति, लुप्यति / पुष्याद्यङि अयुपत् , अरुपत् , अलुपत् / “वौ व्यअनादेः०" 4 / 3 / 25 इति त्वासनोः वा किन्वे युपित्वा, योपित्वा, युयुपिषति, युपोपिषति / एवं रुपलुपोरपि / पनि रोपः-शरः / उणादौ " शिक्यास्याढय०" ( उ० 364 ) इति ये निपातनात् रुप्यतीति रूप्यं-रजतम् / लुप्लती छेदने [ 5 / 9 ], लुम्पते, लुम्पति // 53 डिपच क्षेपे' / डिप्यति, डिडेप / पुष्याद्यङि अडिपत् / डेपिता / "शकिनकि० " 5 / 1 / 29 इति ये डेप्यम् / डिपत् क्षेपे [ 5 / 144 ], डिपति / डिपण क्षेपे [ 9 / 101] डेपयति // __ '54. ष्ट्रपच समुच्छाये' / “षः सो." 2 / 3 / 98 इति सत्वे स्तूप्यति / पोपदेशत्वात् " नाम्यन्तस्था०" 2 / 3 / 15 इति षत्वे तुष्ट्रप / पुष्याद्यङि अस्तूपत् / णो सनि “णिस्तोरेवा० " 2 / 3 / 37 इति षत्वे तुष्ट्रपयिषति / स्तूपिता, स्तूपितुम् / 'ष्ट्रपण समुच्छ्राये [ 9 / 100 ], स्तूपयति / अलि स्तूपः // अथ भान्ताश्चत्वारः सेटश्च // ___'55 लुभच् गार्द्धये' / गायम्-अभिकाङ्क्षा / लुभ्यति, लुलोभ / पुष्याघडि अलुभत् / लोभिष्यति / तादौ " सहलुभ०" 4 / 4 / 46 इति वेटि लोब्धा, लोभिता / वेट्त्वात् क्तयोर्नेट , लुब्धः, लुब्धवान् / लुभत् विमोहने [5 / 76 ], लुभति / विलुभिता: केशाः // '56 क्षुभच् संचलने' / संचलनं-रूपान्यथात्वम् / क्षुभ्यति, चुक्षोभ / पुष्यायडि अक्षुभत् / क्षोभिता / "क्षुब्धविरिन्ध०" 4470 इति ते निपातनात् क्षुब्धः मन्थः / क्षुभितः अन्यः / क्षुभि संचलने [ 1948 ], क्षोभते / शुभ संचलने [ 8 / 46], क्षुम्नाति / द्युतादिपठितेनैव अक्षुभत् इति सिद्धम् , श्यविकरणार्थ तु दिवादी अयमवश्यं पठितव्य इति पुष्यादावपि पठितः // '57 णभ 58 तुभच हिंसायाम् ' / “पाठे०" 22397 इति नत्वे नभ्यति / णोपदेशत्वात् “अदुरुपसर्ग० " 2 / 3 / 77 इति णत्वे प्रणभ्यति / ननाभ / पुष्याघडि अनभत् / नभिता / " शकितकि" 5 / 1 / 29 इति ये नभ्यम् // '58 तुभच्' / तुभ्यति, तुतोभ / पुष्याघडि अतुभत् / तोभिता / गमि तुभि हिंसायाम् [ 11949, 950 ], नभते, तोभते / णभ-तुभश् हिंसायाम् [8147, 48 ], नम्नाति, तुम्नाति // . 1. ष्टुपण इति मु० //