________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० 45___45 रधौच हिंसासंराद्धयोः' / संसद्धिः पाकः / रध्यति / "रध इटि०" 4 / 4 / 101 इति ने रन्ध / संयोगान्तत्वात् परोक्षायाः कियाभावे रन्धतः / " स्क्रसृवृ०" 4 / 4 / 81 इति इटि रन्धिव, ररन्धिम / क्वसौ " अनादेशादेः०" 4 / 1 / 24 इति एत्वे कृते, एकस्वरत्वात् " घसेकस्वरातः०" 4 / 4 / 82 इति इटि " रध इटि०" 4 / 4 / 101 इति नाऽऽगमे, कित्वात् न लुकि च रेधिवान् / पुष्याघडि " नो व्यान०" 4 / 2 / 45 इति न लुकि अरधत् / औदिचात् वेट् , " इटि तु परोक्षायामेव" 4 / 4 / 101 इति नियमात् नाभावे रधिता, अरधिष्यत् / पक्षे रद्धा, अरत्स्यत् / वेट्त्वात् क्तयोर्नेट् , रद्धः, रद्धवान् / णौ म्धयति / पिळूच संगद्धौ [3 / 42 ] रधौच हिंसायां च इत्यकृत्वा अस्याऽत्र निर्देशः संसद्धिभेदज्ञापनार्थः // ___ अथ पान्ता नव सेटश्च // '46 तृपौच प्रीतो' / श्रीतिः सौहित्यम् / तृष्यति, ततर्प, पुष्याद्यङि अतृपत् / " स्पृशमृश० " 3 / 4 / 54 इति वा सिचि अताप्सीत् / “स्पृशादि०" 4 / 4 / 112 इति स्वरात्परे वाऽति अत्राप्सीत् / इटि अतीत् / औदिच्वात् वेटू , तर्पिता, ता, त्रप्ता / वेट्न्वात् क्तयोनेंट् , तृप्तः, तृप्तवान् / उणादौ "ऋज्यजि०" (उ० 388 ) इति किति रे तृपं दुःखम् / तृपट प्रीणने [ 4 / 23 ] तृप्नोति // 47 दृपौच हर्षमोहनयोः ' / मोहनं गर्वः / दृप्यति, ददर्प / पुष्याङि अदपत् / " स्पृशमृश० " 3 / 4 / 54 इति वा सिचि अदासीत् / “स्पृशादि." 4 / 4 / 112 इति स्वरात्परे वाऽति अद्राप्सीत् / इटि अदीत् / औदित्वात् वेट , दर्पिता, दर्ता, द्रप्ता / वेट्त्वात् क्तयोनेंट् , दृप्तः, दप्तवान् / उणादौ "ऋज्यजि०" (उ० 388 ) इति किति रे दृप्रम् बलम् , दृप्रा बुद्धिः // '48 कुपच् क्रोधे' / कुप्यति, चुकोप / पुष्यादित्वादङि अकुपत् / कोपिता, कोपितुम् , कुपितः / भूषाक्रोधा०" 5 / 2 / 42 इति अने कोपशीलः कोपनः / लिहायचि घनि च कोपः // '49 गुपच व्याकुलत्वे'। गुप्यति, जुगोप / पुष्याद्यङि अगुपत् / गोपिता / “कुप्यमिद्य०" 5 / 1139 इति निपातनात् क्यपि कुप्यम् सुवर्णरजताभ्यामन्यत् / “शकितकि० " 5 / 1 / 29 इति ये गोप्यमन्यत् / गुपौ रक्षणे [ 1 / 332 ] गोपायति / गुपि गोपनकुत्सनयोः [ 11763 ], जुगुप्सते / गुपण भासार्थः [ 9 / 221 ], गोपयति //