________________ .. 44 ] धातुपारायणे दिवादयः (3) [ 211 पुष्यायङि असिधत् / णौ " 'सिध्यतेरज्ञाने " 4 / 2 / 11 इति आत्वे अन्नं साधयति दातम् / ज्ञाने तु, आचारः कुलं सेधयति, ज्ञापयतीत्यर्थः / अनुस्वारेवान्नेट सेद्धा, सेद्धम् , सिद्धः / ऊदित्वात् क्त्वि वेट , सिवा सेधित्वा, सिधित्वा / विधू गत्याम् [ 1 / 320 ], पिधौ शास्त्रमाङ्गल्ययो: [ 1 / 321 ], सेधति // _ '43 ऋधूच वृद्धौ' / ऋध्यति, समृध्यति / " अनातो." 41169 इति पूर्वस्य आत्वे ने च आनर्ध, आनृधतुः / पुष्याद्यङि आर्धत् / 'अमाङ' [4 / 4 / 29] इत्यधिकारात् " स्वरादेः०" 4 / 4 / 31 इति वृद्धयभावे मा ऋधत् / अर्धिता, अर्धितुम् / सनि " इवृध०" 4 / 4 / 47 इति वेटि " अयि रः" 4116 इति रस्य द्विन्वाभावे " स्वरादेः०" 4 / 1 / 4 इति द्वितीयांशस्य धेः एव द्वित्वे अदिधिपति, पक्षे इडभावे सादौ सनि "ऋध ई" 4 / 1 / 17 न च द्विः, ईर्सति / ऊदित्वात् विस्व वेट , ऋवा, अधित्वा / वेट्त्वात् क्तयोर्नेट् , ऋद्धः, ऋद्धवान् / णौ अर्धयति / डे आदिधत् / “ऋदुपान्त्याद्० " 5 / 1 / 41 इति क्यपि ऋध्यम् / घनि अर्धः / ऋधूट् वृद्धौ [ 4 / 21 ], समृध्नोति // '44 गृधूच अभिकाङ्क्षायाम् ' / गृध्यति, जगध / पुष्याद्यङि अगृधत् / यङ्लुपि सिवि' गुणे " सेः सुद्धाम्" 4 / 379 इति से: लुकि धस्य रुत्वे आदिचतुर्थत्वे “रो रे." 113141 इति रस्य लुकि अतो दीर्घ च, अजर्घाः / दिवि " यतुरुस्तोः०" 4 / 3 / 64 इति इति " द्वयुक्तोपान्त्य" 43 / 14 इति गुणाभावे अजगंधीत् / गर्धिता, गर्धितुम् / ऊदित्वात् क्त्वि वेटू , गृवा, गर्धित्वा, "क्त्वा" 4 / 3 / 29 इति कित्त्वाभावात् गुणः / वेट्त्वात् क्तयोनेंट् , गृद्धः, गृद्धवान् / णौ फलवत्कर्तरि " अणिगि प्राणिकतक०" 3 / 3 / 107 इति, अफलवति तु "शेषात्परस्मै" 3 / 3 / 100 इति परस्मैपदे प्राप्ते “प्रलम्भे गृधि०" 3 / 3 / 89 इति आत्मनेपदे श्वान गर्धयते / " त्रसिगृधि०" 5 / 2 / 32 इति क्नुः, गृध्नुः / " भृषाक्रोधा." 5 / 2 / 42 इति अने गर्धनः / घजि गर्धः / स्त्रियां क्तौ गृद्धिः। उणादौ " ऋज्यजि०" (उ० 388 ) इति किति रे गृध्रः / केचित्त गृधिं चुरादिमभ्युपगम्य णिचि " प्रलम्भे गृधि०" 3 / 3 / 89 इति आत्मनेपदमिच्छन्ति, गर्धयते // 1. सिध्यतेराज्ञा इति मु०॥ 2. सिधि इति मु० // 3. अजघाः इति मु० //