________________ 37 ] धातुपारायणे दिवादयः (3) [209 अथ चान्तः सेट् च // __ '33 उचच समवाये' / समवाय ऐक्यम् / उच्यति, बोच / पुष्याद्यङि औचत् / उचिता, उचितः, उचित्वा / घजि न्यङ्कवादित्वात् कत्वे ओकः / उणादौ " क्रुशि-पिशि०" ( उ० 212 ) इति किति इते उचितम् / " उच्यञ्चेः क च" (उ० 965) इति असि ओकः, ओकसी / द्यौः ओकः येषां ते, पृषोदरादित्वाद् , दिवौकसः / दिवशब्दो वा अकारान्तः / / अथ टान्तः सेट् च // '34 लुटच् विलोटने' / लुट्यति / लुलोट / पुष्याद्यङि अलुटत् / लोटिता, लुटितः / लुट विलोटने [ 11190 ], लोटति, अलोटीत् / लुटण भासार्थः [ 9 / 214 ], लोटयति // अथ दान्ताश्चत्वारः // '35 विदांच गात्रप्रक्षरणे' / गात्रप्रक्षरणम्-धर्मस्रुतिः / “सः पो०" 2398 इति सत्वे स्विद्यति / पोपदेशत्वात् " नाभ्यन्तस्था०" 2 / 3 / 15 इति षत्वे सिष्वेद / पुष्याद्यङि अस्विदत् / आदित्वात् क्तयोर्नेट, स्विमः, स्विन्नवान् / " नवा भावारम्भे" 4 / 4 / 72 इति वा नेटि स्विन्नमनेन अस्विनः / पक्षे इटि " न डीङ्" 4 / 3 / 27 इति कित्त्वाभावाद् गुणे स्वेदितमनेन प्रस्वेदितः / अनुस्वारेच्चान्नेट, स्वेत्ता, स्वित्वा / जिष्विदाङ् मोचने च [1946], स्वेदते, स्वेदिता / / ____ '36 क्लिदोच् आर्द्रभावे' / क्लियति, चिक्लेद / पुष्याद्यङि अक्लिदत् / औदित्वात् वेट् / सनि चिक्लित्सति / क्लित्वा / पक्षे इटि "वौ व्यञ्जनादेः०" 4 / 3 / 25 इति वा किल्वे चिक्लिदिषति, चिक्लेदिषति, क्लिदित्वा, क्लेदित्वा / वेट्त्वात् क्तयोर्नेट , क्लिन्नः, क्लिन्नवान् / " नाम्युपान्त्य०" 5 / 1 / 54 इति के " चिक्लिद०" 4 / 1 / 14 इति निपातनात् चिक्लिदः / उणादौ " भृमृतृ०" (उ० 716) इति उः, क्लेदुः योनिः // ____ 37 जिमिदाच स्नेहने' / " मिदः श्ये" 435 इति गुणे मेद्यति / मिमेद / पुष्यायङि अमिदत् / मेदिता / जीवात् " ज्ञानेच्छा० " 5 / 2 / 92 इति सति ते "आदितः" 4 / 4 / 71 इति नेटि मिनः मित्रवान् / “नवा भावारम्भे" 4 / 472 इति वा नेट , मिन्नमनेन, प्रमिन्नः / पक्षे इटि "न डीक०" 4327