________________ 208 ] . आचार्यश्रीहेमचन्द्रविरचिते [ धा० 262 / 3 / 15 इति पत्वे सिष्णासयिषति / घटादिरयमित्यके, तन्मते णौ हस्वे सिष्णसयिषति / ष्णुस अदने इति द्रमिलाः, स्नुष्यति, सुष्णोस // 27 नमूच हवृतिदीप्त्योः'। वृतिः-कौटिल्यम् / क्नस्यति, चक्नास, क्नसिता / ऊदित्वात् क्त्वि वेट, क्नसित्वा, कनस्त्वा / वेटत्वात् क्तयोर्नेट् , क्नस्त:, क्नस्तवान् / अचि "चिक्लिद०" 431314 इति निपातनात् चक्नसः / / / '28 त्रसैच भये' / “भ्रास-ग्लास." 3 / 4 / 73 इति वा श्ये त्रस्यति, पक्षे "कर्तर्यनभ्यः " 3 / 471 इति शवि त्रसति, तत्रास / “जभ्रम० " 4 / 1 / 26 इति वा एत्वे द्वित्वाभावे च त्रेसतुः, त्रेसुः / थवि " स्क्रसृवृ०" 4 / 4 / 81 हात इटि सिथ; पक्षे तत्रसतुः, तत्रसुः, तत्रसिथ / त्रसिता, त्रसित्वा / ऐदिचात् क्तयोर्नेट् , त्रस्तः, त्रस्तवान् / " त्रसि-गृधि०" 5 / 2 / 32 इति क्नुः, सनशीलः त्रस्नुः / त्रसण वारणे [9 / 193] त्रासयति // '29 प्युसच् दाहे' / प्युस्यति, पुप्योस, प्योसिता, प्युसितः // अथ हान्तो सेटौ च // '30 षह 31 पुढच शक्तौ' / “पः सो०" 2 / 3 / 98 इति सत्वे सह्यति / परि-नि-विपूर्वस्य " असोड०" 2 / 3 / 48 इति षत्वे परिषयति, निषह्यति, विषह्यति / ससाह / " अनादेशादेः०" 4 / 1 / 24 इति एत्वे द्वित्वाभावे च सेहतुः, सेहुः / सहिष्यति // 31 पुहच ' / “पः सो०" 2 / 3 / 98 इति सत्वे सुह्यति / पोपदेशत्वात् " नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे सुषोह / सोहिता, सुहितः, सुहितवान् / " तृप्तार्थ." 3 / 1 / 85 इति षष्ठीसमासप्रतिषेधात् फलानां सुहितः / तृप्ती अयमित्येके // अथ दिवाद्यन्तर्गणः पुषादिः परस्मैपदी एव / / तत्राऽपि प्रसिद्धधनुरोधाद् आदौ '32 पुषंच पुष्टौ' / अकर्मकोऽयम् , पुष्यति / पुष्यादित्वादङि अपुषत् / पुपोष / अनुस्वारेवान्नेट् , पोष्टा, पुष्टः, पुष्ट्वा / “कुप्यभिद्योध्य०" 5 / 1 / 39 इति निपातनात् क्यपि पुष्यन्त्यस्मिन्नर्थाः इति पुष्य: / " स्वस्नेहन०" 5 / 4 / 65 इति णमि स्वपोषं पुष्टः; एवं गोपोषम् / पुष पुष्टौ [ 11536 ], पोपति / पुषश् , पुष्टौ [ 8 / 57] पुष्णाति / पुषण धारणे [9 / 188 ] पोषयति // . 1. ष्णुस अदर्शने इति द्रमिडा: इति क्षीरतरङ्गिण्याम् (क्षो. त. 198 ) //