________________ 14 ] धातुपारायणे दिवादयः (3) [205 अथ थान्तौ सेटौ च // 10 कुथय् पूतिभावे' / पूतिभावो दुर्गन्धः क्लेदः / कुथ्यति, चुकोथ, कोथिता, कुथितम् / घजि कोथः / उणादौ " उद्वटिकुलि०" ( उ० 351) इति कुमे कुथुमः ऋषिः, कुथुमं मृगाजिनम् / " कुथिगुधेरूमः" ( उ० 353 ) कोथूमः चरणकदृषिः // '11 पुथच हिंसायाम् ' / पुथ्यति, पुपोथ, पोथिता, पोथितुम् , पुथितः / पुथण भासार्थः [ 9 / 218 ], पोथयति / / . अथ धान्तास्त्रयः // -- 12 गुधच् परिवेष्टने ' / गुध्यति, जुगोध, गोधिता, गोधितुम् / “क्षुधक्लिश" 4 / 3 / 31 इति क्त्वः किन्वे गुधित्वा / गुधितः / लिहायचि भिदाधङि वा गोधा / उणादौ " कुथिगुधेरूमः" ( उ० 353 ) गोधूमः / “गुधिगृधेस्तच" ( उ० 568 ) इति किति से गुत्सः तृणजातिः / गुच्छ इति तु गवतेः “तुदिमदि०" ( उ० 124 ) इति छकि / / 13 राघंच वृद्धौ' / स्वादिषु पठिष्यमाणस्याप्यस्य इह पाठो वृद्धौ एव श्यविकरणार्थः / राध्यति-वर्धते इत्यर्थः / वृद्धरन्यत्र श्वः एव राध्नोति-ओदनं पचतीत्यर्थः / मैत्राय राघ्नोति-मैत्रस्य शुभाशुभं पर्यालोचयतीत्यर्थः / कथं तर्हि * "मैत्राय राध्यति' इत्यत्र श्य: ? अत्रापि मैत्रस्य वृद्धिविषयं शुभाशुभपर्यालोचनमिति विवक्षायां वृद्धयर्थता एव, इति स्यादेव / अनुस्वारेवान्नेट , गद्धा, राद्धम् / चुरादेराकृतिगणत्वाद् राधयति / कश्चित्तु राध-साध संसिद्धौ इति पठन् वृद्धेन्यत्रापि राधेः श्यं साधिं च धात्वन्तरमिच्छति, राध्यति अन्नम् , साध्यति // 14 व्यधंच ताडने ' / " शिदवित् " 4 / 3 / 20 इति श्यस्य ङिचाद् " ज्याव्यधः किति" 4 / 1 / 81 इति रवृति विध्यति / " ज्याव्येव्यधि०" 4 / 1 / 71 इति पूर्वस्य इत्वे विव्याध / अनुस्वारेवान्नेट् , व्यद्धा, व्यद्भुम् , विद्धः / " तन्व्यधि०" 5 / 1164 इति णे व्याधः / विपि “गतिकारकस्य०" 3 / 2 / 85 इति दीर्घ मर्मावित् , श्वावित् / अनुपसर्गात् " व्यधजप०" 5 / 3 / 47 इति अलि व्यधः / उपसर्गातु पनि आव्याधः / " स्थादिभ्यः कः" 5 / 3 / 82 विध्यन्ति अनेनेति विधः शस्त्रोपकरणम् आविधम् / उणादौ " पृका०" ( उ० 729.) इति . किदुः, विधुः चन्द्रः //