________________ 204 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 7'7 षोंच अन्तकर्मणि' / अन्तकर्म विनाशः / " षः सो०॥ 2398 इति सत्वे अवस्यति / " उपसर्गात्सुग्० " 2 / 3 / 39 इति षत्वे " नेमादा०" 2 / 379 इति नेणत्वे प्रणिष्यति / अड्व्यवायेऽपि अभ्यष्यत् व्यष्यत् / पोपदेशत्वात् " नाम्यन्तस्था०" 2 / 3 / 15 इति पत्वे सिपासति / " धेघ्रा०" 4 / 3 / 67 इति वा सिज्लुपि अवासात् , अवासासीत् / अवससौ / क्ये "ईय॑अने" 4 / 397 इति ईत्वे अवसीयते / " दोसोमास्थ० " 4 / 4 / 11 इति इत्वे अवसितः, अवसितवान् , सित्वा / अवसायः, व्यवसायः / कथम् अध्यवस्य, व्यवस्य इति ? अत्र केचित् पारायणिका " ओतः श्ये " 4 / 2 / 103 इति योग विभज्य यप्यपि लुक. मिच्छन्ति, तदन्ये न मन्यन्ते इति वाचकवार्तिकम् / अनुस्वारेच्चान्नेट , साता, सातुम् / णौ "पाशा०" 4 / 2 / 20 इति ये अवसाययति / “अबहसा०" 5 / 1163 इति णे अवसायः / " सातिहेति०" 5 / 3 / 94 इति क्तौ निपातनात् सातिः / अनटि अवसानम् / उणादौ " स्थाछामा०" (उ० 357 ) इति ये सायम् / “सात्मन्० " ( उ० 916) इति मनि निपातनात् सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् / सात्मनो भावः सात्म्यम् // अथ डान्तः सेट च // 8 ब्रीडच लजायाम् ' / वीव्यति, विवीड, बीडितः / “क्तेटो." 5 / 3 / 106 इति अः व्रीडा / ऋफिडादित्वाल्लत्वे बील्यति, बीला / पुंभावे घनि वीडः // अथ तान्तः सेट् च // .. __ 9 नृतैच् नर्तने' / नर्तनं नाट्यम् / नृत्यति, ननर्त, नर्तिता, नर्तितुम् / अणोपदेशत्वाद् " अदुरुपसर्ग० " 22377 इति णत्वाभावे प्रनृत्यति / " कृतचूत." 4 / 4 / 50 इति असिचः सादेरादिर्वेट् , नतिष्यति, नर्त्यति, निनतिषति, निनृत्सति / सिचि तु नित्यमिटि अनर्तीत् / वेटत्वादेव क्तयोरिडभावे सिद्धे ऐदित्करणं यङ्लुबन्तादनेकस्वरादपि इडभावार्थम् , नृत्तः, नृत्तवान् , नरिनृत्तः, नरिनृत्तवान् / " नृतेर्यङि" 2 / 3 / 95 इति णत्वप्रतिषेधे नरीनृत्यते / णौ " ईगितः " 3395 इति फलवकर्तर्यात्मनेपदे " अणिगि प्राणिकतकात् 0 " [3 / 3 / 107] इति परस्मैपदेनापोदिते "परिमुहायम" 3394 इति पुनर्विहिते नृत्यति नटः, नर्तयते नटं चैत्रः / “ऋदुपान्त्याद्" 5 / 1141 इति क्यपि नृत्यम् / लिहायचि पनि वा नतः / " नृत्खन०" 5 / 1 / 65 इति अकटि नर्तकः / अनटि " पूर्वपदस्थाद्" 2 / 3 / 64 इति णत्वस्य क्षुम्नादित्वादभावे प्रनर्तनम् / "क्लीबे०" 5 / 3 / 123 क्ते नृत्तम् / /