________________ 6 ] धातुपारायणे दिवादयः (3) [203 अथौदन्ताश्चत्वारोऽनिटश्च // 4 शोंच तक्षणे ' / तक्षणं तनूकरणम् / “न शिति" 4 / 2 / 2 इति आत्वप्रतिषेधात् “ओतः श्ये" 4 / 2 / 103 इति लुकि श्यति / “आत् सन्ध्यक्षरस्य " 4 / 2 / 1 इति आत्वे शशौ / " धेघाशा०" 4 / 3 / 67 इति सिचो वा लुपि अशात् / पक्षे " यमरमि०" 4 / 4 / 86 इति इटि सेऽन्ते च अशासीत् / णौ " पाशा०" 4 / 2 / 20 इति ये निशाययति / अनुस्वारेचान्नेट , शाता, शातुम् / किति ते "छाशो;" 4 / 4 / 12 इति वा इत्वे निशितः, निशातः, निशितवान् , निशातवान् , शित्वा, शात्वा, शितिः, शातिः / “शो व्रते" 4 / 4 / 13 संशितव्रतः साधुः / " तन्व्य धि०" 5 / 1 / 64 इति णे शायः / स्त्रियां भावाकों: " उपसर्गाद्०". 5 / 3 / 110 इति अङि निशा / उणादौ “शाशपि." (उ० 237 ) इति दे शादः पङ्कः / “शामा०" (उ० 462) इति ले शाला / "शः सन्वच " ( उ० 747) इति डौ शिशुः // ____ '5 'दों 6 छोच छेदने' / "ओतः इये" 4 / 2 / 103 इति लुकि यति / "पिवैति०" 4 / 3 / 66 इति सिज्लुपि अदात् / ददौ / किति ते " दोसोमा०" 4 / 4 / 11 इति इत्वे दितः, दितवान् / स्वरान्तोपसर्गपूर्वस्य तु " स्वराद्" 4 / 49 इति तत्वे अवत्तम् / " दस्ति " 3 / 2 / 88 इति नामिनो दीर्घे परीत्तम् / क्ये "ईव्यंअने०" 4 / 3 / 97 इति ईत्वे दीयते / अनुस्वारेन्चान्नेट् , दाता, दातुम् / "तन्व्यधि०" 5 / 1164 इति णे दायः / “य एचा०" 5 / 1 / 28 इति ये देयम् / दिनम् इति तु दीव्यतेः “दिननग्न०" (उ० 268) इति निपातनात् / / 6 छोच' / अवच्छयति / " धेघा." 4 / 3 / 67 इति वा सिजलपि अच्छात् , अच्छासीत् / अपचच्छौ / किति ते "छाशो;" 4 / 4 / 12 इति वा इत्वे छितः, छातः, छितवान् , छातवान् , छिन्वा, छात्वा / अनुस्वारेच्चान्ने , छाता, छातुम् / णौ " पाशा" 4 / 2 / 20 इति ये छाययति उणादौ “गम्यमि०" ( उ० 92 ) इति गे छागः / “स्थाछामा० " ( उ० 357) इति ये छाया / "छो डग्गादिर्वा" (उ० 471 ) इति किति अले. छगलः, छागः, छागल: ऋषिः, छलम् असदुत्तरम् // 1. दो अवखण्डने इति काशकृत्स्नक्षीरस्वामिनौ / (का. धा. पृ. 137, क्षी. त.' पृ. 204) // 2. छोर्ड इति उणादिसूत्रे पाठः //