________________ 202] आचार्यश्रीहेमचन्द्रविरचिते [ धा० १(उ० 901) इति किति अनि दिवा, दिवानौ / प्रतिदिवनः, प्रतिदिवना / " दिवेर्डिव " ( उ० 949 ) इति डिवि द्यौः, दिवौ / चित्करणं दिवादिज्ञापनार्थम् / एवं सर्वत्र // अथ ऋदन्तौ सेटौ च // '2 जूष 3 अपच जरसि'। जरा वयोहानिः / " दिवादेः श्यः " 3 / 4 / 72 जीर्यति / जजार / " जभ्रम" 4 / 1 / 26 इति अतो वा एत्वे द्वित्वाभावे "स्कृच्छ्रतो." 4 / 3 / 8 इति गुणे च जेस्तुः, जजरतुः / " ऋदिच्छ्चि० " 3 / 4 / 65 इति अङि "ऋवर्ण०" 4 / 37 इति गुणे अजरत् ; पक्षे सिचि “सिचि परस्मै०" 4 / 3 / 44 इति वृद्धौ अजारीत / "वृतो नवा" 4 / 4 / 35 इति इटो वा दीर्घ जरीता, जरिता / सनि " इवृध०" 4 / 4 / 47 इति वेटि जिजरिषति, जिजरीपति, जिजीर्षति / " इट सिजाशिषोः०" 4 / 4 / 36 इति वेटि अजरिष्ट, अजरीष्ट स्वयमेव; पक्षे " ऋवर्णात् " 4 / 3 / 35 इति सिचः कित्वे अजीष्ट स्वयमेव / एषु " एकधातौ० " 3 / 4 / 86 इति कर्मकर्तर्यात्मनेपदम् , किगदित्वाच "भूषार्थ." 3 / 4 / 93 इति जिच नास्ति, जरिषीष्ट, जरीषीष्ट, जीर्षीष्ट / णौ “कगे०" 4 / 2 / 25 इति ह्रस्वे जरयति / किति "ऋवर्णधि" 4 / 457 इति नेट् , “गत्यर्थाकर्मक०" 51111 इति वा कर्तरि क्ते जीर्णः चैत्रः पक्षे भावे जीर्ण चैत्रेण / साप्यादपि “श्लिषशी." 5 / 119 इति वा कर्तरि क्ते अनुजीर्णो घृषली चैत्रः; पक्षे कर्मणि अनुजीर्णा वृषली चैत्रण / अकर्मका अपि हि सोपसर्गाः सकर्मका भवन्ति / क्वि "जव्रश्च०" 4441 इति इटि जरित्वा जरीत्वा / " संगतेऽजर्यम् " 5 / 1 / 5 न जीर्यति [इति ] अजयम् आर्यसंगतम् / अचि जरः / पृषोदरादित्वात् कुमरः / भूते "जुषोऽतः" 5 / 11173 जरन् , जरती / षिवादङि “ऋवणे" 4 / 37 इति गुणे जरा / करणाधारे " न्यायावाय" 5 / 3 / 134 इति घापवादे पनि जारः / उणादौ " ऋतष्टित् " ( उ० 9) इति , सरूपे च द्वे रूपे, जर्जरः अदृढः, / जर्जरी स्त्री / " विशिभ्यामन्तः " ( उ० 219) जरन्तः वृद्धः / जश् वयोहानी [8129] जृणाति जण वयोहानौ [9 / 381], युजादित्वाद्वा णिचि जारयति, जरति / "3 झूषच्' / झीर्यति, जझार / “स्कृच्छतो." 4 / 3 / 8 इति गुणे जझरतुः / झरिता / अचि अलि च झरः निर्झरः / षिचादङि " ऋवर्ण०" 437 इति गुणे झरा / अषिदयमित्यन्ये / उणादौ "ऋतष्टित् " ( उ० 9) इति अः सरूपे च द्वे रूपे, झर्झरः वाद्यविशेषः, झझरी झल्लरिका / “सृणीकास्तीक०" (उ० 50) इति ईके निपातनाद् झर्झरीकः देहः, झझरीका वादिनभाण्डम् //