________________ अथ दिवादयः॥ अथ श्यविकरणा दिवादयो वर्णक्रमेण निर्दिश्यन्ते / तत्रापि पूर्वाचार्यप्रसिद्धयनुरोधेन आदौ___१ दिवच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' / जयेच्छा विजिगीषा, पणिः व्यवहारः क्रयादिः / " दिवादेः०" 3472 इति श्ये "भवादेः०" 2 / 1 / 63 इति दीपे च दीव्यति / " उपसर्गाद् दिवः " 2 / 2 / 17 इति विनिमेय- द्यूतपणयोः कर्मणो वा कर्मत्वे " शेषे” 2 / 2 / 81 इति षष्ठयां शतस्य प्रदीव्यति, शतं प्रदीव्यति / अनुपसर्गस्य "न" 2 / 2 / 18 इति कर्मत्वाभावे शतस्य दीव्यति / " करणं च" 2 / 2 / 19 इति करणस्य कर्मत्वकरणत्वयोः अक्षान् दीव्यति , अक्षः दीव्यति; वा इत्यनुक्त्वा " करणं च " 2 / 2 / 19 इत्यत्र चकारकरणं संज्ञाद्वयसमावेशार्थम् , तेन करणत्वात् तृतीया, कर्मत्वाच्च अनाप्यलक्षणम् अणिकर्तुणों कर्मत्वम् , " अणिगि प्राणिकर्तृक० " 3 / 3 / 107 इति परस्मैपदं च न भवति, अर्देवयते मैत्रश्चैत्रण / दिदेव, देविता / सनि " इवृध० " 44 47 इति वेटि इडभावे " अनुनासिके च०" 4 / 1 / 108 इति वस्य उटि दुयषति, दिदेविषति / ऊदित्वात् क्त्वि वेट् , छूत्वा, देविन्वा, “क्त्वा" 4 / 3 / 29 इति विवाभावादत्र गुणः / वेट्त्वात् क्तयोर्नेट् , द्यूतः, द्यूतवान् / द्यूतादन्यत्र " पूदिव्यश्चः०" 4 / 2 / 72 इति क्तयोस्तस्य नत्वे आद्यूनः, आयुनवान् / लिहाद्यचि देवः / गौरादित्वाद् इयां देवी / णके देवकः, देविका नदी / विपि अक्षयः / ण्यन्तात् विपि दयूः / " उपसर्गाद् देव." 5 / 2 / 69 इति णके आदेवयतीत्येवंशीलः आदेवकः, एवं परिदेवकः / उणादौ " दिव्यवि०" ( उ० 142 ) इति अटे देवटः देवकुलविशेषः शिल्पी च / देवर इति तु देवतेः " ऋच्छिचटि०" ( उ० 397) इति अरे / देवल इत्यपि अस्यैव " मृदिकन्दि०" ( उ० 465 ) इति अले / “छविछिवि०" ( उ० 706 ) इति कि(ङि)ति वौ निपातनाद् दीविः कितवः कालश्च / दिदिविः स्वर्गः / दीदिविः अन्नं स्वर्गश्च / किकीति कुर्वन् दीव्यति किकिदीविः चापः / " दिव ऋः" ( उ० 852) देवा देवरः पितृव्य स्त्री च / “लुपूयु." 1. 705 तमात् उणादिसूत्रात् ङित्प्रत्ययस्यानुवृत्तिः / /